मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् १

संहिता

आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्त॑ः श॒तक्र॑तुम् ।
मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः ॥

पदपाठः

आ । वः॒ । इन्द्र॑म् । क्रिवि॑म् । य॒था॒ । वा॒ज॒ऽयन्तः॑ । श॒तऽक्र॑तुम् ।
मंहि॑ष्ठम् । सि॒ञ्चे॒ । इन्दु॑ऽभिः ॥

सायणभाष्यम्

वाजयंतोऽन्नमिच्छंतो वयं शुनःशेपा हे ऋत्विग्यजमाना वो युष्माकं संबंधिनमिममिंद्रमिंदुभिः सोमैरासिंचे । सर्वतः सिंचामहे । तर्पयामः । कीदृशम् । शतक्रतुं शतसंख्याककर्मोपेतं मंहिष्ठमतिशयेन प्रवृद्धम् । सेचने दृष्टांतः । यथा येन प्रकारेण क्रिविमवटं जलेन पूरयंति तद्वत् । क्रिविशब्दो वव्रिः काटुरित्यादिषु चतुर्दशसु कूपनामसु क्रिविः कूपः सूद इति परितं ॥ क्रिविम् । कृती छेदने । कृत्यत इति क्रित्विः । क्रिविघृष्विच्छविस्थवीत्यादौ (उ ४-५६) क्विन्प्रत्ययांतो निपातितः । अत एव तशब्द लोपः । नित्त्वादाद्युदात्तत्वम् । यथा । यथेति पादांते (फि ४-१७) इति सर्वानुदात्तत्वम् । वाजयंतः । वाजमात्मन इच्छंतः । सुप आत्मनः क्यच् । न छंदस्य पुत्रस्येतीत्वदीर्घत्वयोर्निषेधः । अश्वाघस्यादिति पुनर्दीर्घविधानाज्ज्ञापकाश् । मंहिष्ठम् । महि वृद्धौ । अतिशयेन मंहिता मंहिष्ठः । तुश्छंदसि (पा ५-३-५९) इति तृजंतादिष्ठन्प्रत्ययः । तुरिष्ठेमेयःसु (पा ६-४-१५४) इति तृलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । सिंचे । षिचिर् क्षरणे । व्यत्ययेनैकवचनम् । शे मुचादीनामिति नुमागमः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८