मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् २

संहिता

श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिराम् ।
एदु॑ नि॒म्नं न री॑यते ॥

पदपाठः

श॒तम् । वा॒ । यः । शुची॑नाम् । स॒हस्र॑म् । वा॒ । सम्ऽआ॑शिराम् ।
आ । इत् । ऊं॒ इति॑ । नि॒म्नम् । न । री॒य॒ते॒ ॥

सायणभाष्यम्

य इंद्रः शुचीनां शुद्धानां सोमानां शतं वा शतसंख्याकं समूहं वा । समाशिरां समीचीनेनाशिराख्येन श्रपणद्रव्येणोपेतानां सोमानां सहस्रं वा सहस्रसंख्याकं समूहं वा एदुरीयते । अगच्छत्येव । सोऽस्माननुगृह्णात्विति शेषः । सोमप्राप्तौ दृष्टांतः । निम्नं न । यथा निम्नप्रदेशमाप अप्नुवंति तद्वत् ॥ समाशिराम् । श्रीञ् पाक इत्यस्य समाङ् पूर्वस्य क्विप्यपस्पृधेथामित्यादावाशीरादेशो निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । रीयते । रीङ् श्रवणे । दिवादिभ्यः श्यन् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८