मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् ३

संहिता

सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑ ।
स॒मु॒द्रो न व्यचो॑ द॒धे ॥

पदपाठः

सम् । यत् । मदा॑य । शु॒ष्मिणे॑ । ए॒ना । हि । अ॒स्य॒ । उ॒दरे॑ ।
स॒मु॒द्रः । न । व्यचः॑ । द॒धे ॥

सायणभाष्यम्

यत्पूर्वोक्तं शतं सहस्रं वा शुष्मिणे बलवत इंद्रस्य मदाय मदार्थं संगतं भवति । एना ह्यनेनैव शतेन सहस्रेण चास्येंद्रस्योदरे व्यचो व्याप्तिर्दधे । धृता भवति । तत्र दृष्टांतः । समुद्रो न समुद्र इव । यथा समुद्रमध्ये जलं व्याप्तं तद्वत् ॥ एना । सुपां सुलुगिति तृतीयाया डादेशः । व्यचः । व्यचेः कुटादित्वमनसि । का १-२-१-१ । इति ङिद्वद्भावस्य प्रतिषिद्धत्वाद्ग्रहिज्येत्यादिना संप्रसारणं न भवति असुनो नित्त्वादाद्युदात्तत्वम् । दधे । दधातेः कर्मण्यभ्यासह्रस्वजश्त्वेषु कृतेष्वातो लोप इट चेत्याकारलोपः । प्रत्ययस्वरेणांतोदात्तत्वम् । हि चेति प्रतिषेधान्निघाताभावः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८