मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् ६

संहिता

ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो ।
सम॒न्येषु॑ ब्रवावहै ॥

पदपाठः

ऊ॒र्ध्वः । ति॒ष्ठ॒ । नः॒ । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥

सायणभाष्यम्

हे शतक्रतो शतसंख्याक कर्मोपेत अस्मिन्प्रसक्ते वाजे संग्रामे नोऽस्माकमूतये रक्षणायोर्ध्व उन्नत उत्सुकस्तिष्ठ । भव । त्वं चाहं च मिलित्वान्येषु कार्यांतरेषु सं ब्रवावहै । सम्यक् विचारयावः ॥ तिष्ठ । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । ऊतये । ऊतियूतीत्यादिनाक्तिन उदात्तत्वम् । अस्मिन् । ऊडिदमित्यादिना सप्तम्या उदात्तत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९