मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् ७

संहिता

योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।
सखा॑य॒ इन्द्र॑मू॒तये॑ ॥

पदपाठः

योगे॑ऽयोगे । त॒वःऽत॑रम् । वाजे॑ऽवाजे । ह॒वा॒म॒हे॒ ।
सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥

सायणभाष्यम्

योगे योगे प्रवेशे । प्रवेशे तत्तत्कर्मोपक्रमे वाजे वाजे कर्मविघातिनि तस्मिंस्तस्मिन्संग्रामे तवस्तरमतिशयेन बलिनमिंद्रमूतये रक्षार्थं सखायः सखिवत्प्रिया वयं हवामहे । आह्वयामः ॥ योगे योगे । युजिर् योगे । हलश्चेति घञ् । चचोः कु घिण्यतोः (पा ७-३-५२) इति कुत्वम् । घञो ञित्त्वादाद्युदात्तत्वम् । नित्यवीप्सयोरिति वीप्सायां द्विर्भावे सत्याम्रेडितानुदात्तत्वम् । तवस्तरम् । तवसः शब्दादस्मायामेधेति (पा ५-२-१२१) मत्वर्थीयो विनिः । तस्य छांदसो लोपः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९