मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् ८

संहिता

आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभि॑ः ।
वाजे॑भि॒रुप॑ नो॒ हव॑म् ॥

पदपाठः

आ । घ॒ । ग॒म॒त् । यदि॑ । श्रव॑त् । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ ।
वाजे॑भिः । उप॑ । नः॒ । हव॑म् ॥

सायणभाष्यम्

यदि श्रवत् यद्ययमिंद्रो नोऽस्मदीयं हवमाह्वानं शृणुयात् तदानीं स्वयमेव सहस्रिणीभिरूतिभिर्भहुभिः पालनैर्वाजेभिरन्नैश्च सहोप समीप आ घ अवश्यमागमत् । आगच्छेत् ॥ घ । ऋचि तुनुघेत्यादिना संहितायां दीर्घः । गमत् । लिङर्थे लेट् । लेटोऽडाटावित्यडागमः । इतश्च लोप इतीकारलोपः । यद्वा । छांदसे लुङि पुषादिद्युताद्य्लृदितः परस्मैपदेषु (पा ३-१-५५) इति च्लेरङादेशः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । श्रवत् । श्रु श्रवणे । पूर्ववल्लेट्यडागमः । वाजेभिः । बहुलं छंदसीति भिस ऐसादेशाभावः । हवम् । भावेऽनुपसर्गस्येति ह्वयतेरप् । संप्रसारणं च । अपः पित्त्वादनुदात्तत्वे धातुस्वरेणाद्युदात्तत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९