मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् १४

संहिता

आ घ॒ त्वावा॒न्त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः ।
ऋ॒णोरक्षं॒ न च॒क्र्यो॑ः ॥

पदपाठः

आ । घ॒ । त्वाऽवा॑न् । त्मना॑ । आ॒प्तः । स्तो॒तृऽभ्यः॑ । धृ॒ष्णो॒ इति॑ । इ॒या॒नः ।
ऋ॒णोः । अक्ष॑म् । न । च॒क्र्योः॑ ॥

सायणभाष्यम्

हे धृष्णो धार्ष्ट्ययुक्तेंद्र त्वावान् त्वत्सदशो देवताविशेषस्त्मनाप्तस्त्वदनुग्रहवशात्स्वयमेवाप्तः सन् इयानोऽस्माभिर्याच्यमानः स्तोतृभ्यः स्तोतृणामनुग्रहाय तदभीष्टमर्थं घ अवश्यमा ऋणोः । आनीय प्रक्षिपतु । तत्र दृष्टांतः । चक्र्योः रथस्य चक्रयोरक्षं न । यथाक्षं प्रक्षिपंति तद्वत् ॥

त्वावान् । वतुप्प्रकरणे युष्मदस्मद्भ्यां छंदसि सादृश्य उपसंख्यानम् । पा ५-२-३९-१ । इति वतुप् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । आ सर्वनाम्नः (पा ६-३-९१) इति दकारस्यात्वम् । वतुपः । पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः शिष्यते । त्मना । मंत्रेष्वाङ्यादेरात्मनः (पा ६-४-१४१) इत्याकारलोपः । धृष्णो । ञिधृषा प्रागल्भ्ये । त्रसिगृधिधृषिक्षिपेः क्नुः (पा ३-२-१४०) आमंत्रितानुदात्तत्वम् । इयानः । ईङ् गतौ । छंदसि लिट् (पा ३-२-१०५) तस्य लिटः कानज्वेति कानजादेशः । अचि श्नुधात्वित्यादिना (पा ६-४-७७) इयङादेशः । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यमिति वचनादभ्यासो न क्रियते । चित इत्यंतोदात्तत्वम् । ऋणोः । ऋण गतौ । लङि व्यत्ययेन तिपः सिपीतश्च (पा ३-४-१००) इतीकारलोपः । तनादिकृञ् भ्य उः (पा ३-१-७९) सार्वधातुकगुणः । बहुलं छंदस्यमाङ्योगेऽपीत्यडागमाभावः । विकरणस्वरेणोदात्तत्वम् । अक्षम् । अक्षस्यादेवनस्य (फि २-१२) इत्याद्युदात्तत्वम् । चक्र्योः । अकारस्येकारश्छांदसः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०