मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३०, ऋक् १५

संहिता

आ यद्दुवः॑ शतक्रत॒वा कामं॑ जरितॄ॒णाम् ।
ऋ॒णोरक्षं॒ न शची॑भिः ॥

पदपाठः

आ । यत् । दुवः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । आ । काम॑म् । ज॒रि॒तॄ॒णाम् ।
ऋ॒णोः । अक्ष॑म् । न । शची॑भिः ॥

सायणभाष्यम्

हे शतक्रतो इंद्र यद्दुवो धनं कामितार्थरूपमा स्तोतृभिराप्तव्यमस्ति तं कामं जरितृणां स्तोतृणामनुग्रहाय आ ऋणोः । आनीय प्रक्षिपसि । तत्र दृष्टांतः । शचीभिः कर्मभिः शकटोचितव्यापारविशेषैरक्षं न । यथाक्षं प्रक्षिपंति तद्वत् ॥ शचीभिः कर्मभिः शकटोचितव्यापारविशेषैरक्षं न । यथाक्षं प्रक्षिपंति तद्वत् ॥ शचीभिः । शचीशब्दः शार्ङरवादिङीनंत आद्युदात्तः ॥ पा ४-१-७३ ॥ ३० ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०