मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् ३

संहिता

त्वम॑ग्ने प्रथ॒मो मा॑त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते ।
अरे॑जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । मा॒त॒रिश्व॑ने । आ॒विः । भ॒व॒ । सु॒क्र॒तू॒ऽया । वि॒वस्व॑ते ।
अरे॑जेताम् । रोद॑सी॒ इति॑ । हो॒तृ॒ऽवूर्ये॑ । अस॑घ्नोः । भा॒रम् । अय॑जः । म॒हः । व॒सो॒ इति॑ ॥

सायणभाष्यम्

हे अग्ने त्वं मातरिश्वने प्रथमो मुख्योभूत्वा वर्तसे । अग्निर्वायुरादित्य इति वाय्वपेक्षया सर्वत्र मुख्यत्वावगमात् । तादृशस्त्वं सुक्रतूया शोभनकर्मेच्छया विवस्वते परिचरते यजमानायाविर्भव । प्रकटो भव । तव सामर्थ्यं दृष्ट्वा रोदसी द्यावापृथिव्यावरेजेताम् । अकंपेताम् । भ्यसते रेजत इति भयवेपनयोः नि । ३-२१ । इति यास्कः । होतृवूर्ये होतृवरणयुक्ते कर्मणि भारं भरणमसघ्नोः । ऊढवानसि । हे वसो निवासहेतो वह्ने महः पूज्यान्देवानयजः । इष्टवानसि ॥ मातरिश्वने । निर्माणहेतुत्वान्मातांतरिक्षम् । तत्र श्वसिति प्राणितीति मातरिश्वा वायुः । श्वन्नुक्षन्नित्यादौ (उ १-१५८) मातरिश्वन् शब्दः कन्प्रत्ययांतो निपातितः । सुक्रतूया । सुक्रतुमात्मन इच्छति । सुप आत्मनः क्यच् । अकृत्सार्वधातुकयोरिति दीर्घः (पा ७-४-२५) क्यंजतस्य धातुसंज्ञायां आ प्रत्ययात् (पा ३-३-१०२) इति भावेऽकारप्रत्ययः । ततष्वाप् । सुपां सुलुगिति तृतीयैकवचनस्य डादेशः । ट लोप उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । संहितायामन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घः । विवस्वते । विवासतिः परिचरणकर्मा । अस्मात्संपदादिलक्षणः क्विप् । व्यत्ययेनोपधाह्रस्वत्वम् । तदस्यास्तीति मतुप् । मादुपधाया इति मतोर्वत्वम् । तसौ मत्वर्थ इति भत्वेन पदत्वाभावाद्रुत्वाभावः । मतुपः पित्त्वादनुदात्तत्वम् । धातुस्वरः । शिष्यते । रोदसी । वा छंदसीति पूर्वसवर्णदीर्घत्वं ॥ होतृवूर्ये । होत्रा व्रियत इति होतृवूर्यो यज्ञः । वृञ् वरणे । बहुलग्रहणादौणादिकः क्यप् । उदोष्ठ्यपूर्वस्येत्युत्वम् । हलि चेति दीर्घः । यद्वा । वृञ् वरणे । बहुलग्रहणादौणादिकः क्यप् । उदोष्ठ्यपूर्वस्येत्युत्वम् । हलि चेति दीर्घः । यद्वा । वृञ् वरण इत्यस्मादेतिस्तुशास्वित्यादिना (पा ३-१-१०९) क्यप् । अनित्यमागमशासनमिति तुगभावः । अकृत्सार्वधातुकयोरिति दीर्घत्वे पूर्ववदुत्वदीर्घौ । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । असघ्नोः । षघ हिंसायामत्र तु वहनार्थः । स्वादिभ्यः श्नुः । पादादित्वादनिघातः । अयजः । भारमित्यस्य पूर्वपदस्य वाक्यांतरगतत्त्वात्तदपेक्षयास्य निघातो न भवति । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः । पा ८-१-१८-५ । इति वचनात् । महः । मह पूजायाम् । क्विप्चेति क्विप् । सुपां सुपो भवंतीति शसो ङसादेशः । सावेकाच इति तस्योदात्तत्वम् । यद्वा । शसि महच्छब्दस्याच्छब्दलोपश्छांदसः । बृहन्महतोरुपसंख्यानमिति शस उदात्तत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२