मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् ६

संहिता

त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म॑न्पिपर्षि वि॒दथे॑ विचर्षणे ।
यः शूर॑साता॒ परि॑तक्म्ये॒ धने॑ द॒भ्रेभि॑श्चि॒त्समृ॑ता॒ हंसि॒ भूय॑सः ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । वृ॒जि॒नऽव॑र्तनिम् । नर॑म् । सक्म॑न् । पि॒प॒र्षि॒ । वि॒दथे॑ । वि॒ऽच॒र्ष॒णे॒ ।
यः । शूर॑ऽसाता । परि॑ऽतक्म्ये । धने॑ । द॒भ्रेभिः॑ । चि॒त् । सम्ऽऋ॑ता । हंसि॑ । भूय॑सः ॥

सायणभाष्यम्

हे विचर्षणे विशिष्टज्ञानयुक्ताग्ने त्वं वृजिनवर्तनिं विप्लुतमार्गं सदाचाररहितं नरं पुरुषं सक्मन् सचनीये समवेतुं योग्ये विदथे कर्मणि पिपर्षि । पालयसि पूरयसि वा । सत्कर्मानुष्ठानयुक्तं करोषीत्यर्थः । यस्त्वं परितक्म्ये परितो गंतव्ये धने धनवच्छूराणां प्रियतमे शूरसाता शूरैः संभजनीये युद्धे दभ्रेभिश्चिदल्पैरपि शौर्यरहितैः पुरुषैः । दभ्रमर्भकमित्यल्पस्य (नि ३-२०) इति यास्कः । समृता सम्यक् योद्धुं प्राप्ते सति तदनुग्रहार्थं भूयसः प्रौढान्प्रतिपक्षिणः शत्रून् हंसि मारयसि । ईदृशस्तव महिमेत्यर्थः ॥ वृजिनवर्तनिम् । वृजिना वर्तनिर्यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सक्मन् । षच समवाये । अन्यभ्योऽपि दृश्यंत इति मनिन् । नेड्वति कृतीतीट् प्रतिषेधः । न्यंक्वादित्वात् (पा ७-३-५३) कुत्वम् । सुपां सुलुगिति सप्तम्या लुक् । पिपर्षि । पृ पालनपूरणयोः । सिपि श्लौ द्विर्भावह्रस्वोरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । शूरसाता । शु गतौ । शुषिचिमीनां दीर्घश्च (उ २-२५) इति शूरशब्दो रन्प्रत्ययांत आद्युदात्तः वनषण संभक्तावित्यस्मात् क्तिनंतः सातिशब्दः । जनसनकनां सन्झलोरित्यात्वम् । शूराणां सातिः संभजनमत्रेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति सप्तम्या डादेशः । परितक्म्ये । तक हसने । अस्मादौणादिको भावे मक् । तदर्हतीति छंदसि च (पा ५-१-६७) इति यः । प्रादयो गताद्यर्थे प्रथमयेति समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । दभ्रेभिः । दन्भु दंभे । स्भायितंचीत्यादिना रक् । बहुलं छंदसीति भिस ऐसादेशाभावः । समृता । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । पूर्ववदाकारः । हंसि । हंते सिपि नश्चापदांतस्य झलि (पा ८-३-२४) इत्यनुस्वारः । यद्वृत्तयोगादनिघातः । भूयसः । बहोर्लोपो भू च बहोः (पा ६-४-१५८) इति बहुशब्दादुत्तरस्येयसुन ईकारलोपो बहोर्भूभावश्च । नित्त्वादाद्युदात्तत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३