मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् ७

संहिता

त्वं तम॑ग्ने अमृत॒त्व उ॑त्त॒मे मर्तं॑ दधासि॒ श्रव॑से दि॒वेदि॑वे ।
यस्ता॑तृषा॒ण उ॒भया॑य॒ जन्म॑ने॒ मयः॑ कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये॑ ॥

पदपाठः

त्वम् । तम् । अ॒ग्ने॒ । अ॒मृ॒त॒ऽत्वे । उ॒त्ऽत॒मे । मर्त॑म् । द॒धा॒सि॒ । श्रव॑से । दि॒वेऽदि॑वे ।
यः । त॒तृ॒षा॒णः । उ॒भया॑य । जन्म॑ने । मयः॑ । कृ॒णोषि॑ । प्रयः॑ । आ । च॒ । सू॒रये॑ ॥

सायणभाष्यम्

हे अग्ने त्वं तं मर्तं तथाविधं त्वत्सेविनं मनुष्यं दिवेदिवे प्रतिदिनं श्रवसेऽन्नार्थमुत्तमेऽमृतत्व उत्कृष्टे मरणरहिते पदे दधासि । धारयसि । यो यजमान उभयाय जन्मने द्विविधजन्मार्थम् । द्विपदां चतुष्पदां लाभायेत्यर्थः । ततृषाणोऽतिशयेन तृष्णायुक्तो भवति तस्मै सूरयेऽभिज्ञाय यजमानाय मयः सुखम् । यद्वै सुखं तन्मय इति श्रुत्यंतरात् । प्रयश्चान्नमप्या कृणोषि । सर्वतः करोषि ॥ ततृषाणः । ञितृषा पिपासायाम् । लिटः कानच् य चित्त्वादंतोदात्तत्वम् । संहितायां दीर्घश्छांदसः । कृणोषि । कृवि हिंसाकरणयोश्च । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । चादिलोपे विभाषेति निघातप्रतिषेधः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३