मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् ८

संहिता

त्वं नो॑ अग्ने स॒नये॒ धना॑नां य॒शसं॑ का॒रुं कृ॑णुहि॒ स्तवा॑नः ।
ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे॑न दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥

पदपाठः

त्वम् । नः॒ । अ॒ग्ने॒ । स॒नये॑ । धना॑नाम् । य॒शस॑म् । का॒रुम् । कृ॒णु॒हि॒ । स्तवा॑नः ।
ऋ॒ध्याम॑ । कर्म॑ । अ॒पसा॑ । नवे॑न । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥

सायणभाष्यम्

हे अग्ने स्तवानः स्तूयमानस्त्वं नोऽस्माकं धनानां सनये दानार्थं यशसं यशोयुक्तं कारुं कर्मणां कर्तारं पुत्रं कृणुहि । कुरु । नवेन नूतनेनापसा प्राप्तेन त्वद्दत्तेन पुत्रेण कर्म यागदानादिरूपमृध्याम । वर्धयाम । हे द्यावापृथिवी उभे देवते देवैरन्यैः सह नोऽस्मान्प्रावतम् । प्रकर्षेण रक्षतं ॥ यशसं अर्शआदित्वादच् प्रत्ययः । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वा । सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः । म ३-१-११-३ । इति यशस् शब्दात् क्विप् । तस्य प्रत्ययांतस्य सनाद्यंतत्वाद्धातुसंज्ञायां क्विप्चेति क्रिप्प्रत्ययांतधातोः सति शिष्टत्वाद्धातोरित्यंतोदात्तत्वम् । कृणुहि । उतश्च प्रत्ययाच्छंदोवा वचनम् । पा ६-४-१०६-१ इति हेर्लुगाभावः । स्रवानः । सम्यानच् स्तुवः (उ २-८६) इति बहुलवचनात्केवलस्यापि स्तौतेरानच् प्रत्ययः । वृषादित्वादाद्युदात्तत्वम् । ऋध्याम । ऋधु वृद्धौ । बहुलं छंदसीति विकरणस्य लुक् । यासुट उदात्तत्वम् । द्यावापृथिवी । दिवो द्यावा (पा ६-३-२९) इति द्यावादेशः । आमंत्रितानुदात्तत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३