मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् १०

संहिता

त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं व॑य॒स्कृत्तव॑ जा॒मयो॑ व॒यम् ।
सं त्वा॒ रायः॑ श॒तिन॒ः सं स॑ह॒स्रिणः॑ सु॒वीरं॑ यन्ति व्रत॒पाम॑दाभ्य ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । प्रऽम॑तिः । त्वम् । पि॒ता । अ॒सि॒ । नः॒ । त्वम् । व॒यः॒ऽकृत् । तव॑ । जा॒मयः॑ । व॒यम् ।
सम् । त्वा॒ । रायः॑ । श॒तिनः॑ । सम् । स॒ह॒स्रिणः॑ । सु॒वीर॑म् । य॒न्ति॒ । व्र॒त॒ऽपाम् । अ॒दा॒भ्य॒ ॥

सायणभाष्यम्

हे अग्ने त्वं प्रमतिरस्मदनुग्रहरूपप्रकृतिष्टमतियुक्तोऽसि । तथा त्वं नोऽस्माकं पिता पालकोऽसि तथा त्वं वयस्कृत् । आयुष्यप्रदोऽसि वयमनुष्ठातारस्तव जामयो बंधवः । हे अदाभ्य केनाप्यहिंसनीयाग्ने सुवीरं शोभनपुरुषयुक्तं व्रतपां कर्मणः पालकं त्वां शतिनः शतसंख्यायुक्ता रायो धनानि सं यंति । सम्यक् प्राप्नुवंति । तथा सहस्रिणः सहस्रसंख्याकारायः सं यंति ॥ सुवीरम् । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वे प्राप्ते वीरवीर्यौ च (पा ६-२-१२०) इत्युत्तरपदाद्युदात्तत्वम् । अदाभ्य । दभिः प्रकृत्यंतरमस्तीति केचिदाहुः । दभेश्चेति वक्तव्यम् । पा ३-१-१२४-३ । इति ण्यत् ॥ ३३ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३