मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् ११

संहिता

त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे॑ दे॒वा अ॑कृण्व॒न्नहु॑षस्य वि॒श्पति॑म् ।
इळा॑मकृण्व॒न्मनु॑षस्य॒ शास॑नीं पि॒तुर्यत्पु॒त्रो मम॑कस्य॒ जाय॑ते ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । आ॒युम् । आ॒यवे॑ । दे॒वाः । अ॒कृ॒ण्व॒न् । नहु॑षस्य । वि॒श्पति॑म् ।
इळा॑म् । अ॒कृ॒ण्व॒न् । मनु॑षस्य । शास॑नीम् । पि॒तुः । यत् । पु॒त्रः । मम॑कस्य । जाय॑ते ॥

सायणभाष्यम्

हे अग्ने त्वां प्रथमं पुरा देवा आयव आयोर्मनुष्यरूपस्य नहुषस्यैतन्नामकराजविशेषस्यायुं मनुष्यरूपं विश्पतिं सेनापतिमकृण्वन् । कृतवंतः । तथा मनुष्यस्य मनोरिळामेतन्नामधेयां पुत्रीं शासनीं धर्मोपदेशकर्त्रीमकृण्वन् । कृतवंतः । तथा च तैत्तिरीयैराम्नायते । इडा वै मानवी यज्ञानु काशिन्युसीत् । तै ब्रा १-१-४-४ । इति वाजसनेयिनोऽप्येवमामनंति । प्रयाजानुयाजानां मध्ये मामवकल्पय मया सर्वानवाप्स्यसि कामानिति सा मनुमन्वशादिति यत् शादिति । यद्यदा ममकस्य मदीयस्य हिरण्यस्तूपसंबंधिनो यः पितांगिरास्तस्य पितुः पुत्रो जायते । तदानीं हे अग्ने त्वमेव पुत्ररूप आसीरिति शेषः ॥ आयवे । षष्ठर्थे चतुर्थी वक्तव्या । म २-३-३२-१ । इति चतुर्थी । नहुषस्य णह बंधने । नहिकलिहन्यर्तिलसिभ्य उषच् (उ ४-७५) वृषादित्वादाद्युदात्तत्वम् । विश्पतिम् । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । मनुषस्य । मनोर्निदित्युषच् । नित्वादाद्युदात्तत्वम् । शासनीं शिष्यतेऽनयेति शासनी । करणाधिकरणयोश्चेति ल्युट् । टिड्ढाणञित्यादिना (पा ४-१-१५) ङीप् । लित्सर्वेणाद्युदात्तत्वम् । ममकस्य । ममेदमित्यर्थे तस्येदम् (पा ४-३-१२०) इत्यणि तवकममकावेकवचने (पा ४-३-३) इत्यस्मच्छब्दस्य ममकादेशः । संज्ञापूर्वको विधिरनित्य इति वृद्ध्य भावः । व्यत्ययेनाद्युदात्तत्वं ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४