मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् १२

संहिता

त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वन्द्य ।
त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥

पदपाठः

त्वम् । नः॒ । अ॒ग्ने॒ । तव॑ । दे॒व॒ । पा॒युऽभिः॑ । म॒घोनः॑ । र॒क्ष॒ । त॒न्वः॑ । च॒ । व॒न्द्य॒ ।
त्रा॒ता । तो॒कस्य॑ । तन॑ये । गवा॑म् । अ॒सि॒ । अनि॑ऽमेषम् । रक्ष॑माणः । तव॑ । व्र॒ते ॥

सायणभाष्यम्

हे वंद्य वंदनीयाग्ने देव त्वं तव पायुभिस्त्वदीयैः पालनैर्मघोनो धनयुक्तान्नोऽस्मान् रक्ष । तथा तन्वश्च । तनूः पुत्रदेहानपि रक्ष । तोकस्यास्मदीयस्य पुत्रस्य यस्तनयोऽस्मत्पौत्रादिस्तव व्रते त्वदीये कर्मण्यनिमेषं निरंतरं रक्षमाणः सावधानो वर्तते तस्मिन्या गावः संति तासां गवां त्राता रक्षकोऽसि । ईदृशस्य तवास्मद्रक्षणे किमु वक्तव्यमित्यर्थः ॥ मघोनः । शसि श्वयुवमघोनामतद्धिते (पा ६-४-१३३) इति संप्रसारणम् । तन्वः । सुपां सुपो भवंतीति शसो जसादेशः । पूर्वसवर्णदीर्घस्य दीर्घाज्जसि चेति प्रतिषेधः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । शसि ह्युदात्तयणो हल्पूर्वादिति विभक्युदात्तत्वं स्यात् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४