मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् १४

संहिता

त्वम॑ग्न उरु॒शंसा॑य वा॒घते॑ स्पा॒र्हं यद्रेक्ण॑ः पर॒मं व॒नोषि॒ तत् ।
आ॒ध्रस्य॑ चि॒त्प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो॑ वि॒दुष्ट॑रः ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । उ॒रु॒ऽशंसा॑य । वा॒घते॑ । स्पा॒र्हम् । यत् । रेक्णः॑ । प॒र॒मम् । व॒नोषि॑ । तत् ।
आ॒ध्रस्य॑ । चि॒त् । प्रऽम॑तिः । उ॒च्य॒से॒ । पि॒ता । प्र । पाक॑म् । शास्सि॑ । प्र । दिशः॑ । वि॒दुःऽत॑रः ॥

सायणभाष्यम्

हे अग्ने त्वमुरुशंसाय बहुभिः स्तोतव्याय वाघते ऋत्विजे तदुपकारार्थं स्पार्हं स्पृहणीयं परममुत्तमं यद्रेक्णो धनमस्ति तद्धनं वनोषि । अनुष्ठाता लभतामिति कामयसे । तथा त्वमाध्रस्य चित् सर्वतो धारणीयस्य पोषणीयस्य दुर्बलस्य यजमानस्यापि प्रमतिः प्रकृष्टबुद्धियुक्तः । पिता पालक इत्यभिज्ञैरुच्यसे । तथा विदुष्टरोऽतिशयेनाभिज्ञस्त्वं पाकं शिशुम् । पोतः पाकोऽर्भको डिंभः । अम २-५-३८ । इत्यभिधानात् । यास्कोऽप्येवमाह । पाकः पक्तव्यो भवति (नि ३-१२) तथाविधं यजमानं प्रशास्सि । प्रकर्षेणानुशिष्टं करोषि । तथा दिशः प्राच्यादिकाः प्रशास्सि । त्वदीयशासनाभावेऽनुष्ठातृणां विभ्रमः । स्यात् । तथा च श्रूयते । देवा वै देवयजनमध्यवसाय दिशो न प्रजानन् । तै सं ६-१-५-१ । इति । स भ्रमो दक्षिणादिग्गतोऽग्निा निवर्तते । तदपि तत्रैवाम्नातम् । पथ्यां स्वस्तिमयजन् प्राचीमेव तथा दिशं प्राजानन्नग्निना दक्षिणेति । ऐतरेयिणापि तथैवाम्नातम् । अथो एतं वरमवृणीत मयैव प्राचीं दिशं प्रजानाथाग्निना दक्षिणाम् । ऐ ब्रा १-७ । इति ॥ उरुशंसाय । शन्सु स्तुतौ । शस्यत इति शंसः । कर्मणि घञ् । ञित्स्वरेणाद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । स्पार्हम् । स्पृहासंबंधि । तस्येदमित्यण् । रेक्णः । रिचिर् विरेचने । रिचेर्धने उ ४-१९८ । इत्यसुन् । चकारान्नुडागमः । चचोः कु घिण्यतोः पा ७-३-५२ । इति कुत्वम् । आध्रस्य । ध्रै तृप्तौ । आदेच उपदेशेऽशितीत्यात्वम् । आतश्चोपसर्गे (पा ३-१-१३६) इति कप्रत्ययः । शास्सि । शासु अनुशिष्टौ । अदादित्वाच्छपो लुक् । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः । पाकं च प्रशास्सि दिशश्च प्रशास्सीत्यत्र चार्थोगम्यते । अतश्चादि लोपे विभाषेति प्रथमा तिङ्विभक्तिर्न निहन्यते । विदुष्वरः । विद्वच्छब्दात्तरप्ययस्मयादीनि छंदसि (पा १-४-२०) इति भसंज्ञायां वसोः संप्रसारणमिति संप्रसारणं परपूर्वत्वम् । शासिवसीति षत्वम् । तरपः पित्त्वादनुदात्तत्वे वसोः स्वरेणोकार उदात्तः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४