मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् १८

संहिता

ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती॑ वा॒ यत्ते॑ चकृ॒मा वि॒दा वा॑ ।
उ॒त प्र णे॑ष्य॒भि वस्यो॑ अ॒स्मान्त्सं नः॑ सृज सुम॒त्या वाज॑वत्या ॥

पदपाठः

ए॒तेन॑ । अ॒ग्ने॒ । ब्रह्म॑णा । व॒वृ॒ध॒स्व॒ । शक्ती॑ । वा॒ । यत् । ते॒ । च॒कृ॒म । वि॒दा । वा॒ ।
उ॒त । प्र । ने॒षि॒ । अ॒भि । वस्यः॑ । अ॒स्मान् । सम् । नः॒ । सृ॒ज॒ । सु॒ऽम॒त्या । वाज॑ऽवत्या ॥

सायणभाष्यम्

साग्निचयने क्रतावुखासंभरणीयायामिष्टावग्नेर्ब्रह्मण्वतः पुरोनुवाक्यैतेनाग्न इत्येषा । दर्शपूर्णमासाभ्यामिष्ट्वेति खंड एतेनाग्ने ब्रह्मणा वावृधस ब्रह्म च ते जातवेदो नमश्च (आ ४-१) इति सूत्रितं ॥

हे अग्ने एतेनास्मत्प्रयुक्तेन ब्रह्मणा मंत्रेण ववृधस्व । अभिवृद्धो भव । शक्ती वा विदा वा अस्मदीयशक्त्या चास्मदीयज्ञानेन च ते तव यत्सोत्रं चकृम वयं कृतवंतः । एतेन ब्रह्मणेति पूर्वत्रान्वयः । उतापि चास्माननुष्ठातृन् वस्यो वसुमत्तरत्वलक्षणं श्रेयः प्रणेषि । प्रकर्षेणि प्रापय । नोऽस्मान्वाजवत्या प्रभूतान्नयुक्तया सुमत्यानुष्ठानविषयया शोभनबुद्ध्या सं सृज । संयोजय ॥ ववृधस्व । वृधु वृद्धौ । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । द्विर्भावहलादिशेषोरदत्वानि । अभ्यासस्य संहितायां दीर्घश्छांदसः । शक्ती । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । क्तिनो नित्त्वादाद्युदात्तत्वम् । विदा । सावेकाच इति तृतीयाया उदात्तत्वम् । नेषि । णीञ् प्रापणे । बहुलं छंदसीति शपो लुक् । उपसर्गादसमास इति णत्वम् । सुमत्या । मन् क्तिन्नित्यादिनोत्तरपदांतोदात्तत्वं प्रथमाध्याये प्रपंचितम् । ऋग्वे १-७-७ । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ ३५ ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५