मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् १

संहिता

इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ।
अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ॥

पदपाठः

इन्द्र॑स्य । नु । वी॒र्या॑णि । प्र । वो॒च॒म् । यानि॑ । च॒कार॑ । प्र॒थ॒मानि॑ । व॒ज्री ।
अह॑न् । अहि॑म् । अनु॑ । अ॒पः । त॒त॒र्द॒ । प्र । व॒क्षणाः॑ । अ॒भि॒न॒त् । पर्व॑तानाम् ॥

सायणभाष्यम्

वज्री वज्रयुक्त इंद्रः प्रथमानि पूर्वसिद्धानि मुख्यानि वा यानि वीर्याणि पराक्रमयुक्तानि कर्माणि चकार तस्येंद्रस्य तानि वीर्याणि नु क्षिप्रं प्रब्रवीमि । कानि वीर्याणीति तदुच्यते । अहिं मेघमहन् । हतवान् तदेतदेकं वीर्यम् । अनु पश्चादपो जलानि ततर्द । हिंसितवान् । भूमौ पातितवानित्यर्थः । इदं द्वितीयं वीर्यम् । पर्वतानां संबंधिनीर्वक्षणाः प्रवहणशीला नदीः प्राभिनत् । भिन्नवान् । कूलद्वयकर्षणेन प्रवाहितवानित्यर्थः । इदं तृतीयं वीर्यम् । एवमुत्तरत्रापि द्रष्टव्यं ॥ वीर्याणि शूर वीर विक्रांतौ । ण्यंतादचो यदिति यत् । णेरनिटीति णिलोपः । तित्स्वरितमिति स्वरितत्वम् । यतोऽनाव इत्याद्युदात्तत्वम् । न भवति । आद्युदात्तत्वे हि सुशब्देन बहुव्रीहावाद्युदात्तं द्व्यच्छंदसीत्यनेनैवोत्तरपदाद्युदात्तत्वस्य सिद्धत्वाद्वीरवीर्यौ चेति पुनस्तद्विधानमनर्थकं स्यात् । अतोऽवगम्यते यतोऽनाव इत्याद्युदात्तत्वम् । वीरशब्दे न प्रवर्तत इति । अतः परिशेषात्तित्स्वर्वितमिति प्रत्ययस्य स्वरितत्वमेव । वोचम् । अस्यतिवक्तिख्यातिभ्योऽङिति च्लेरङादेशः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । चकार । णलि लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । अहन् । लङीतश्चेतीकारलोपे हल्ङ्याब्भ्य इति तकारलोपः । अहिम् । आङ्पूर्वाद्धंतेराङि श्रिहनिभ्यां ह्रस्वश्च (उ ४-१३७) इतीप्रत्ययः । आङो ह्रस्वत्वं च । चशब्देन । वेञो डित् समाने ख्यश्चोदात्त इति डित्वं पूर्वपदोदात्तत्वं चानुकृष्यते । ततष्विलोपे पूर्वपदस्योदात्तत्वम् । ततर्द । उतृदिर् हिंसानादरयोः । तिङ्ङतिङ इति निघातः । वक्षणाः । वक्ष रोषे । क्रुधमंडार्थेभ्यश्च (पा ३-२-१५१) इति युच् । चित्स्वरं बाधित्वा व्यत्ययेन प्रत्ययस्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६