मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् ३

संहिता

वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ ।
आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ॥

पदपाठः

वृ॒ष॒ऽयमा॑णः । अ॒वृ॒णी॒त॒ । सोम॑म् । त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ ।
आ । साय॑कम् । म॒घवा॑ । अ॒द॒त्त॒ । वज्र॑म् । अह॑न् । ए॒न॒म् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् ॥

सायणभाष्यम्

वृषायमाणो वृष इवाचरन्निंद्रः सोममवृणीत । वृतवान् । त्रिकद्रुकेषु । ज्योतिर्गौरयुरित्येतन्नामकास्त्रयो यागास्त्रिकर्दुका उच्यंते । तेषु सुतस्याभिषुतस्य सोमस्यांशमपिबत् । पीतवान् । मघवा धनवानिंद्रः सायकं बंधकं वज्रमादत्त । स्वीकृतवान् । तेन च वज्रेणाहीनां मेघनां मध्ये प्रथमजां प्रथमोत्पन्नं मेघमहन् । हतवान् ॥ वृषायमाणः । वृष इवाचरन् । कर्तुः क्यङ् सलोपश्च (पा ३-१-११) इति क्यङ् । अकृत्सार्वधातुकयोरिति दीर्घः । अदुपदेशाद्धातोरंतोदात्तत्वे क्यङंताद्दातोरंतोदात्तत्वम् । सायकम् । षिञ् बंधन । सिनोतीति सायकः । ण्वुल् । लित्स्वरेणाद्युदात्तत्वम् । प्रथमजां प्रथमं जायत इति प्रथमजाः । जनसनखनक्रमगमो विट् । विड्वनोरित्यात्वं ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६