मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् ९

संहिता

नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेन्द्रो॑ अस्या॒ अव॒ वध॑र्जभार ।
उत्त॑रा॒ सूरध॑रः पु॒त्र आ॑सी॒द्दानु॑ः शये स॒हव॑त्सा॒ न धे॒नुः ॥

पदपाठः

नी॒चाऽव॑याः । अ॒भ॒व॒त् । वृ॒त्रऽपु॑त्रा । इन्द्रः॑ । अ॒स्याः॒ । अव॑ । वधः॑ । ज॒भा॒र॒ ।
उत्ऽत॑रा । सूः । अध॑रः । पु॒त्रः । आ॒सी॒त् । दानुः॑ । श॒ये॒ । स॒हऽव॑त्सा । न । धे॒नुः ॥

सायणभाष्यम्

वृत्रपुत्रा वृत्रः पुत्रो यस्या मातुः सेयं माता वृत्रपुत्रा नीचावया न्यग्भावं प्राप्ता हताभवत् । पुत्रं प्रहाराद्रक्षितुं पुत्रदेहस्योपरि तिरश्ची पतितवतीत्यर्थः । तदानीमयमिंद्रोस्या मातुरवाधोभागे वृत्रस्योपरि वधो हननसाधनमायुधं जभार । प्रहृतवान् । तदानीं सूर्मातोत्तरोपरिस्थितासीत् । पुत्रस्त्वधोभागस्थित आसीत् । सा च दानुर्दानवी वृत्रमाता शये । मृता शयनं कृतवती । तत्र दृष्टांतः । धेनुर्लोकप्रसिद्धा गौः सहवत्सा न । यथा वत्ससहिता शयनं करोति तद्वत् ॥ नीचावयाः । वेति खादतीति वयो बाहुः । औणादि कोऽसिप्रत्ययः । न्यंचौ वयसौ यस्याः सा नीचावयाः । न्यच् शब्दादुत्तरस्या विभक्तेः सुपां सुपो भवंतीति तृतीयैकवचनादेशः । अच इत्यकारलोपे चाविति दीर्घत्वम् । अंचेश्छंदस्य सर्वनामस्थानम् (पा ६-१-१७०) इति तस्योदात्तत्वम् । समासे लुगभावश्छांदसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । नीचौ । निकृष्टौ वयसौ यस्याः सा । पूर्वपदस्य दीर्घश्छांदसः । जभार । हृग्रहोर्भ इति भत्वम् । सूः । षूङ् प्राणिगर्भविमोचने । सूते गर्भं मिमुंचतीति सूर्माता । क्विप्चेति क्विप् । दानुः । दो अवखंडने । दाभाभ्यां नुः (उ ३-३२) शये लट लोपस्त आत्मनेपदेषु (पा ७-१-४१) इति तलोपः । शीङः सार्वधातुक इति गुणेऽयादेशः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७