मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् ११

संहिता

दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आपः॑ प॒णिने॑व॒ गावः॑ ।
अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥

पदपाठः

दा॒सऽप॑त्नीः । अहि॑ऽगोपाः । अ॒ति॒ष्ठ॒न् । निऽरु॑द्धाः । आपः॑ । प॒णिना॑ऽइव । गावः॑ ।
अ॒पाम् । बिल॑म् । अपि॑ऽहितम् । यत् । आसी॑त् । वृ॒त्रम् । ज॒घ॒न्वान् । अप॑ । तत् । व॒वा॒र॒ ॥

सायणभाष्यम्

दासपत्नीः । दासो विश्वोपक्षपणहेतुर्वृत्रः पतिः स्वामी यासामपां ता दासपत्नीः । अत एवाहिगोपाः । अहिर्वृत्रो गोपा रक्षको यासां ताः । गोपनं नाम स्वच्छंदेन यथा न प्रवहंति तथा निरोधनम् । एतदेव स्पष्टीक्रियते । आपो निरुद्धा अतिष्ठन्निति । तत्र दृष्टांतः । पणिनेव गावः । पणिनामकोऽसुरो गा अपहृत्य बिले स्थापयित्वा बिलद्वारमाच्छाद्य यथा निरुद्धवांस्तथेत्यर्थः । अपां यद्बिलं प्रवहणद्वारमपिहितं वृत्रेण निरुद्धमासीत् तद्बिलं प्रवहणद्वारं वृत्रं जघन्वान्हतवानिंद्रोऽप ववार । अपवृतमकरोत् । वृत्रकृतमपां निरोधं परिहृतवान् । अत्र यास्कः । दासपत्नीर्दासाधिपत्न्यो दासो दस्यतेरुपदासयति कर्माण्यहिगोपा अतिष्ठन्नहिना गुप्ताः । अहिरयनादेत्यंतरिक्षेऽयमपीतरोऽहिरेतस्मादेव निर्ह्रासितोपसर्ग आहंतीति । निरुद्धा आपः पणिनेव गावः । पणिर्वणिग्भवति पणिः पणनाद्वणिक् पण्यं नेनेक्ति । अपां बिलमपिहितं यदासीत् । बिलं भरं भवति बिभर्तेर्वृत्रं जघ्निवानपववार तद्वृत्रो वृणोतेर्वा वर्ततेर्वा वर्धतेर्वा यदवृणोत्तद्वृत्रस्य वृत्रत्वमिति विज्ञायते । यदवर्तत तद्वृत्रस्य वृत्रत्वमिति विज्ञायते । यदवर्धत तद्वृत्रस्य वृत्रत्वमिति विज्ञायते (नि २-१७) इति ॥ दास पत्निः । दसु उपक्षये । दासयतीति दासो वृत्रः । पचाद्यच् । चित इत्यंतोदात्तत्वम् । दासः । पतिर्यासां विभाषा सपूर्वस्य (पा ४-१-३४) इति ङीप् । तत्संनियोगेनेकारस्य नकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । दासस्य पालयित्र्यः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । अहिगोपाः । गुपू रक्षणे । गोपायतीति गोपाः । आयादय आर्धधातुके वा (पा ३-१-३१) इत्यायप्रत्ययः । ततः क्विप् । अतो लोपः । वेरपृक्तलोपाद्वलि लोपो बलीयानिति पूर्वं यकारलोपः । पा ६ १ ६६-६७ । न चाचः परस्मिन्नत्यतो लोपस्य स्थानिवत्त्वम् । न पदांतद्विर्वचनेति प्रतिषेधात् । अहिर्गोपा यासाम् । पूर्ववत्स्वरः । निरुद्धाः । रुधिर् आवरणे । झषस्तथोर्धोऽधः । पा ८ २ ४० । इति निष्ठातकारस्य धकारः । गतिरनंतर इति गतेः प्रकृतिस्वरस्वम् । जघन्वान् । हंतेर्लिटः क्वसुः । अभ्यासाच्च (पा ७-३-५५) इत्यभ्यासादुत्तरस्य हकारस्य कुत्वम् । क्रादिनियमप्राप्तस्येटो विभाषा गमहनेत्यादिना । पा ७ २ ६८ । विकल्पविधानादभावः । संहितायां नकारस्य रुत्वानुनासिकावुक्तौ ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८