मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् ४

संहिता

वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिन्द्र ।
धनो॒रधि॑ विषु॒णक्ते व्या॑य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ॥

पदपाठः

वधीः॑ । हि । दस्यु॑म् । ध॒निन॑म् । घ॒नेन॑ । एकः॑ । चर॑न् । उ॒प॒ऽशा॒केभिः॑ । इ॒न्द्र॒ ।
धनोः॑ । अधि॑ । वि॒षु॒णक् । ते । वि । आ॒य॒न् । अय॑ज्वानः । स॒न॒काः । प्रऽइ॑तिम् । ई॒युः॒ ॥

सायणभाष्यम्

हे इंद्र धनिनं बहुधनोपेतं दस्युं चोरं वृत्रं घनेन कठिनेन वज्रेण वधीर्हि । त्वं हतवान्खलु । धनित्वं वाजसनेयिनोऽपि स्पष्टमामनंति । वृत्रस्यांतः सर्वे देवाः सर्वाश्च विद्याः सर्वाणि हवींषि चासन्निति । उपशाकेभिः समीपवर्तिभिः शक्तियुक्तैर्मरुद्भिः सहितो भूत्वैकश्चरन् । प्रहर्तुं स्वयमेक एव गच्छन् । यद्यपि मरुतः समीपे वर्तंते तथापि ते प्रोत्साहयंत्येव न तु वृत्रं प्रहरंति । प्रहर्ता तु स्वयमेक एव । तथा च ब्राह्मणे समाम्नातम् । मरुतो हैनं नाजहुः प्रहर भगवो वीरयस्वेत्येवैनमेतां वाचं वदंत उपातिष्ठंत । ऐ ब्रा ३-२० । इति । धनोरधि इंद्रसंबंधिनो धनुष उपरि विषुणक् विविधं नाशमुद्धिश्य यद्वा विष्टक् सर्वतस्ते वृत्रानुचरा व्यायन् । विविधमागच्छन् । आगत्य चायज्वानो यज्वविरोधिनः संतः सनका एतन्नामका वृत्रानुचराः प्रेतिमीयुः । मरणं प्राप्ताः ॥ वधीः । हन हिंसागत्योः । लुङि च (पा २-४-४३) इति वधादेशः । स चादंतः । तस्यातो लोप इति लोपे सति स्थानिवद्भावादतो हलादेः (पा ७-२-७) इति वृद्ध्यभावः । इट ईट (पा ८-२-२८) इति सिचो लोपः । आगमानुदात्तत्वे धात्वकारस्योदात्तत्वम् । घनेन एकः । ईषा अक्षादिषु च्छंदसि प्रकृतिभावमात्रं वक्तव्यम् । पा ६-१-१२७-२ । इति संहितायां प्रकृतिभावः । अनुनासिक-श्छांदसः । उपशाकेभिः । उपशक्तं कुर्वंतीत्युपशाकाः । शक्लृ शक्तौ । अस्माद्धेतुमण्यंतात्पचाद्यच् । थाथादिस्वरेणोत्तरपदांतोदात्तत्वम् । विषुणक् । विषुपूर्वान्नशेः । संपदादिलक्षणः क्विप् । नशेर्वा (पा ८-२-६३) इति कुत्वम् । यद्वा । विषुपूर्वस्यांचतेर्नुडागमः । सनका इत्यसुराणां नाम । षणुदाने । सन्वंति ददातीति सना दातारः । पचाद्यच् । सनान्कायंति शब्दयंतीति सनकाः । आतोऽनुपसर्गे कः । आतो लोप इट चेत्याकारलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रेतिम् । तादौ च नितीति गतेः प्रकृतिस्वरत्वम् । ईयुः । एतेरुसिपरत्वादिणो यणिति यणादेशे द्विर्वचनेऽचीति स्थानिवद्भावादिकारस्य द्विर्वचनम् । दीर्घ इणः किति (पा ७-४-६९) इत्यभ्यासस्य दीर्घत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः