मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् ५

संहिता

परा॑ चिच्छी॒र्षा व॑वृजु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भि॒ः स्पर्ध॑मानाः ।
प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर॑व्र॒ताँ अ॑धमो॒ रोद॑स्योः ॥

पदपाठः

परा॑ । चि॒त् । शी॒र्षा । व॒वृ॒जुः॒ । ते । इ॒न्द्र॒ । अय॑ज्वानः । यज्व॑ऽभिः । स्पर्ध॑मानाः ।
प्र । यत् । दि॒वः । ह॒रि॒ऽवः॒ । स्था॒तः॒ । उ॒ग्र॒ । निः । अ॒व्र॒तान् । अ॒ध॒मः॒ । रोद॑स्योः ॥

सायणभाष्यम्

हे इंद्र ते वृत्रानुचराः शीर्षा स्वकीयानि शिरांसि परा चित् पराज्मुखान्येव कृत्वा ववृजुः । गतवंतः । कीदृशास्ते । अयज्वानः स्वयं यागरहिताः प्रत्युत यज्वभिर्यागानुष्ठातृभिः सह स्पर्धमानाः । हे हरिवो हरिनामकाश्वयुक्त स्थातः स्थितियुक्त युद्धे पलायनरहित उग्र शौर्ययुक्तेंद्र यद्यदा दिवोंऽतरिक्षाद्रोदस्योर्द्यावापृथिव्योः सकाशाच्चाव्रतान्व्रतरहितान्वृत्रानुचरान्निष्प्राधमो निःशेषेण धमनं कृतवानसि । तदानीं त्वदीयमुखवायुना नुन्नाः संतो ववृजुरिति पूर्वत्रान्वयः ॥ शिर्षा । शेश्छंदसि बहुलमिति शेर्लोपः । ववृजुः । वृजी वर्जने । असंयोगाल्लिट् कित् (पा १-२-५) इति कित्त्वाद्गुणाभावः । अयज्वानः । यजतेः सुयजोर्ङ्वनिप् (पा ३-२-१०३) इति भूते ङ्वनिप्प्रत्ययस्य पित्वादनुदात्तत्वे धातुस्वसेणाद्युदात्तत्वम् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । हरिवः । हरी अस्य स्त इति हरिवान् । छंदसीर इति मतुपो वत्वम् । संबुद्धौ मतुवसोरिति रुत्वम् । अव्रतान् । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । दीर्घादटीति संहितायां नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । अधमः । ध्मा शब्दाग्निसंयोगयोः । लङि सिपि शपि पाघ्रेत्यादिना धमादेशः ॥ १ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः