मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् ७

संहिता

त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो॑धयो॒ रज॑स इन्द्र पा॒रे ।
अवा॑दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः ॥

पदपाठः

त्वम् । ए॒तान् । रु॒द॒तः । जक्ष॑तः । च॒ । अयो॑धयः । रज॑सः । इ॒न्द्र॒ । पा॒रे ।
अव॑ । अ॒द॒हः॒ । दि॒वः । आ । दस्यु॑म् । उ॒च्चा । प्र । सु॒न्व॒तः । स्तु॒व॒तः । शंस॑म् । आ॒वः॒ ॥

सायणभाष्यम्

हे इंद्र त्वं रुदतो रोदनं कुर्वतो जक्षतो भक्षणं हसनं वा कुर्वतश्चैतान् द्विविधानपि वृत्रानुचरान्रजसः पारेऽंतरिक्षस्य परभागे । रजः शब्दोंऽतरिक्षवाची लोका रजांस्युच्यंते (नि ४-१९) इत्युक्तत्वात् । अयो धयः युद्धमकरोः । युद्धेन मारितवानित्यर्थः । दस्युमुपक्षयितारं वृत्रं दिव आ द्युलोकादानीयोच्चोत्कर्षेणावादहः । दग्धवानसि । वृत्रं सपरिवारं विनाश्य तत ऊर्ध्वं सुन्वतः सोमभिषवं कुर्वतः स्तुवतः स्तोत्रं कुर्वतो यजमानस्य शंसं स्तुतिप्रावः । प्रकर्षेण रक्षितवानसि ॥ रुदतः । रुदिर् अश्रुविमोचने । लटः शतृ । अदादित्वाच्छपो लुक् । प्रत्ययस्वरेणांतोगात्तत्वम् । शतुरनुम इति शस उदात्तत्वम् । जक्षतः । जक्ष भक्षहसनयोः । पूर्ववच्छपो लुक् । जक्षित्यादयः षट् । पा ६-१-६ ॥ इत्यभ्यस्तसंज्ञा । अतोऽभ्यस्तानामादिरित्याद्युदात्तत्वंसुन्वतः । सुनोतेः शतरि स्वादिभ्यः श्नुः । हुश्नुवोरित्यादिना यणादेशः । शतुरनुम इति विभक्तेरुदात्तत्वम् । स्तुवतः । ष्टुञ् स्तुतौ । अदादित्वाच्छपो लुक् । उवङादेशः । पूर्ववत्स्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः