मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् ९

संहिता

परि॒ यदि॑न्द्र॒ रोद॑सी उ॒भे अबु॑भोजीर्महि॒ना वि॒श्वतः॑ सीम् ।
अम॑न्यमानाँ अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिन्द्र ॥

पदपाठः

परि॑ । यत् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अबु॑भोजीः । म॒हि॒ना । वि॒श्वतः॑ । सी॒म् ।
अम॑न्यमानान् । अ॒भि । मन्य॑मानैः । निः । ब्र॒ह्मऽभिः॑ । अ॒ध॒मः॒ । दस्यु॑म् । इ॒न्द्र॒ ॥

सायणभाष्यम्

हे इंद्र यद्यदा रोदसी उभे द्युलोकभूलोकावुभौ महिना त्वदीयेन महिम्ना विश्वतः सीं सर्वतः परिगृह्य पर्यबुभोजीः परितो भुक्तवानसि । तदानीं त्वममन्यमानान् मंत्रार्थमनुध्यातुमशक्तानपि केवलपाठकान्यजमानानभि मन्यमानैरस्मदीया एते यजमाना रक्षणीया इत्यभिमानं कुर्वद्भिर्ब्रह्मभिर्मंत्रैर्दस्युं चोरं वृत्रादिरूपमसुरं निरधमः । निःसारितवानसि । धमतिर्गतिकर्मा (नि ६-२) इति यास्कः । अबुभोजीः । भुज पालनाभ्यवहारयोः । लङि सिपि बहुलं छंदसि (पा २-४-७६) इति विकरणस्य श्लुः । बहुलं छंदसि (पा ७-३-९७) इतीडागमः । आडुदात्तः । यद्वृत्तयोगादनिघातः । महिना । महिम्ना । महच्छब्दात्पृथ्वादिलक्षणो भावे इमनिच् । टीरिति टलोपः । तृतीयै कवचनेऽल्लोपे सत्युदात्तनिवृत्तिस्वरेणोदात्तत्वम् । मलोपश्छांदसः । आमन्यमानान् । मन्यंते जानंतीति मन्यमानाः । मन ज्ञाने । दिवादिभ्यः श्यन् । श्यनो नित्त्वादाद्युदात्तत्वम् । समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । संहितायां रुत्वानुनासिकावुक्तौ ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः