मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् १२

संहिता

न्या॑विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्र॑ः ।
याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युम् ॥

पदपाठः

नि । अ॒वि॒ध्य॒त् । इ॒ली॒बिश॑स्य । दृ॒ळ्हा । वि । शृ॒ङ्गिण॑म् । अ॒भि॒न॒त् । शुष्ण॑म् । इन्द्रः॑ ।
याव॑त् । तरः॑ । म॒घ॒ऽव॒न् । याव॑त् । ओजः॑ । वज्रे॑ण । शत्रु॑म् । अ॒व॒धीः॒ । पृ॒त॒न्युम् ॥

सायणभाष्यम्

इलीबिशस्य इलाया भूमेर्बिले शयानस्य वृत्रस्य संबंधीनि । इलाबिलशयस्येति यास्कः (नि ६-१९) दृळ्हा दृंहितान्यसुरेण निरुद्धानि प्रभूतान्युदकानींद्रो न्यविध्यत् । नितरां विद्धवान् । यद्वा । दृळ्हानि प्रबलानि सैन्यानि नितरां विद्धवान् । तत ऊर्ध्वं शृंगिणं गोमहिषादिशृंगसमानैरायुधैरुपेतं शुष्णं जगतः शोषकं वृत्रं व्यभिनत् । विविधं ताडितवान् । हे मघवन् धनयुक्तेंद्र तव यावत्तरो यावान्वेगोऽस्ति यावदोचो यावद्बलमस्ति तेन सर्वेण युक्तस्त्वं पृतन्युं पृतनां युद्धमिच्छंतं शत्रुं वृत्रं वज्रेणावधीः । हतवानसि ॥ अविध्यत् । व्यध ताडने । श्यनि ग्रहिज्येत्यादिना संप्रसारणम् । तिङ्ङतिङ इति निघात उदात्तस्वरितयोर्यण इति संहितायामडागमस्य स्वरितत्वम् । इलीबिशस्य । पृषोदरादित्वादभिमतरूपस्वरसिद्धिः । दृळ्हा । दृंहेर्निष्ठायां दृढः स्थूलबलयोः (पा ७-२-२०) इति निपात्यते । शेश्छंदसि बहुलमिति शेर्लोपः । अभिनत् । भिदिर् । विदारणे । लङि रुधादिभ्यः श्नम् । इतश्चेतीकारलोपे हल्द्याब्भ्य इति तिलोपः । शुष्णम् । शुष शोषणे । शोषयतीति शुष्णः । तृषिशुषिरसिभ्यः किच्च (उ ३-१२) इति न प्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । अवधीः । लुङि चेति हंतेर्वधादेशः । पृतन्युम् । पृतनाशब्यात्क्यचि कव्यध्वर पृतनस्येत्यंत्यलोपः । काच्छंदसीत्युप्रत्ययः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः