मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् १४

संहिता

आव॒ः कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्प्रावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् ।
श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै॑त्रे॒यो नृ॒षाह्या॑य तस्थौ ॥

पदपाठः

आवः॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । प्र । आ॒वः॒ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् ।
श॒फऽच्यु॑तः । रे॒णुः । न॒क्ष॒त॒ । द्याम् । उत् । श्वै॒त्रे॒यः । नृ॒ऽसह्या॑य । त॒स्थौ॒ ॥

सायणभाष्यम्

हे इंद्र कुत्समेतन्नामकं गोत्रप्रवर्तकमृषिमावः । रक्षितवानसि । यस्मिन्कुत्से चाकन् स्तुतिं कामयमानो वर्तसे । तं कुत्समिति पूर्वत्रान्वयः । तथा दशद्युमेतन्नामकं दशसु दिक्षु दीप्यमानमृषिं प्रावः । प्रकर्षेणः रक्षितवानसि ॥ कीदृशम् । युद्ध्यंतं स्वकीयैः शत्रुभिः सह युध्धं कुर्वंतं वृषभं गुणैः श्रेष्ठम् । शफच्युतस्त्वदीयाश्वस्य शफात्पतितो रेणुर्धूलिद्यां द्युलोकं नक्षत । प्राप्नोति । श्वैत्रेयः । श्वित्राख्याया योषितः पुत्रः पुरा शत्रुभयाज्जले मग्नः सन् त्वदनुग्रहान्नृसह्याय नृभिः पुरुषैः सोढव्यायोत्तस्थौ । जलादुत्थितवान् ॥ चाकन् । चक तृप्तौ । अस्माण्यंताच्छतृ । छंदस्युभयथेत्यार्धधातुकत्वाणिलोपः शबभावश्च । प्रत्ययस्वरेणांतोदात्त्तत्वम् । यद्वा । कमु कांतावित्यस्माद्यङ् लुगंताल्लङि सिप्यभ्यासस्य नुमभावश्छांदसः । दीर्घोऽकित इति दीर्घत्वम् । सिलोपे मो नो धातोः (पा ८-२-६४) इति मकारस्य नकारः । धातुस्वरः । यद्वृत्तयोगादनिघातः । युध्यंतम् । व्यत्ययेन परस्मैपदम् । दशद्युम् । दीव्यतेः प्रकाशार्थात्संपदादिलक्षणः क्विप् । फ्वोः शूडित्यूट् । दशसु दिक्षु दुर्यस्यासौ दशद्युः । छांदसं ह्रस्वत्वम् । यद्वा । द्युशबोऽहर्नामसु पठितः । तेन प्रवृत्तिनिमित्तभूतः प्रकाशो लक्ष्यते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शफच्युतः शफेन च्युतः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । नक्षत । नक्ष गतौ । व्यत्ययेनात्मनेपदम् । श्वैत्रेयः । श्वित्राया अपत्यम् । स्त्रीभ्यो ढक् (पा ४-१-१२०) नृसह्याय शक्तिसहोश्च (पा ३-१-९९) इति कर्मणि यत् । यतोऽनाव इत्याद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । पूर्वपदात् (पा ८-३-१०६) इति षत्वम् । संहितायां दीर्घश्छांदसः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः