मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् २

संहिता

त्रयः॑ प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः ।
त्रयः॑ स्क॒म्भासः॑ स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑ ॥

पदपाठः

त्रयः॑ । प॒वयः॑ । मधु॒ऽवाह॑ने । रथे॑ । सोम॑स्य । वे॒नाम् । अनु॑ । विश्वे॑ । इत् । वि॒दुः॒ ।
त्रयः॑ । स्क॒म्भासः॑ । स्क॒मि॒तासः॑ । आ॒ऽरभे॑ । त्रिः । नक्त॑म् । या॒थः । त्रिः । ऊं॒ इति॑ । अ॒श्वि॒ना॒ । दिवा॑ ॥

सायणभाष्यम्

मधुवाहने मधुरद्रव्याणां नानाविधखाद्यादीनां वहनेन युक्तेऽश्विनोः संबंधिनि रथे पवयो वज्रसमाना दृढाश्चक्रविशेषास्त्रयस्त्रिसंख्याकाः संति । इत् इत्थं चक्रत्रयसद्भावप्रकारं विश्वे सर्वे देवाः सोमस्य चंद्रस्य वेनां कमनीयां भार्यामभिलक्ष्य यात्रायां विदुः । जानंति । यदा सोमस्य वेनया सह विवाहस्तदानीं नानाविधखाद्ययुक्तं चक्रत्रयोपेतं प्रौढं रथमारुह्याश्विनौ गच्छत इति सर्वे देवा जानंतीत्यर्थः । तस्य रथस्योपरि स्कंभासः स्तंभविशेषास्त्रयस्त्रि संख्याकाः स्कभितासः । स्थापिताः । किमर्थम् । आरभे । आरब्धुम् । अवलंबितुं यदा रथस्त्वरया याति तदानीं पतनभीतिनिवृत्त्यर्थं हस्तालंबनभूताः स्तंभा इत्यर्थः । हे अश्विना युवां तादृशेन रथेन नक्तं रात्रौ त्रियार्थः । त्रिवारं गच्छथः । तथा दिवा दिवसेऽपि त्रियार्थः । रात्रावहनि च रथमारुह्य पुनःपुनः क्रीडथ इत्यर्थः ॥ मधुवाहने । मधु वाह्यतेऽनेनेति मधुवाहनः । करणे ल्युट् । विदुः । वेत्तेर्लट विदो लटो वेति झेरुसादेशः । स्कंभासः । ष्वभि स्कभि गतिप्रतिबंधे । स्कंभंते प्रतिबद्धा भवंतीति स्कंभाः । पचाद्यच् । स्कभितासः । स्कंभुः सौत्रो धातुः । अस्मान्निष्ठायां यस्य विभाषेतीट् प्रतिषेधे प्राप्ते ग्रसितस्कभितेत्यादिनेडागमो निपातितः । आरभे । रभ राभस्ये । अस्मादाङ्पूर्वात्संपदादिलक्षणो भावे क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः