मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् ५

संहिता

त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धियः॑ ।
त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथ॑म् ॥

पदपाठः

त्रिः । नः॒ । र॒यिम् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । दे॒वऽता॑ता । त्रिः । उ॒त । अ॒व॒त॒म् । धियः॑ ।
त्रिः । सौ॒भ॒ग॒ऽत्वम् । त्रिः । उ॒त । श्रवां॑सि । नः॒ । त्रि॒ऽस्थम् । वा॒म् । सूरे॑ । दु॒हि॒ता । रु॒ह॒त् । रथ॑म् ॥

सायणभाष्यम्

हे अश्विना युवं नोऽस्मान्न्रयिं धनं त्रिर्वहतम् । त्रिवारं प्रापयतम् । देवताता देवतातौ देवैर्युक्ते कर्मणि त्रिस्त्रिवारमागच्छतमिति शेषः । उतापि च धियोऽस्मद्बुद्धीस्त्रिस्त्रिवारं रक्षतम् । सौभगत्वं सौभाग्यं त्रिर्वहतमिति शेषः । उतापि च श्रवांस्यन्नानि नोऽस्मभ्यं त्रिर्वहतम् । वां युवयोः संबंधिनं त्रिष्ठं चक्रत्रयेऽवस्थितं रथं सूरे सूर्यस्य दुहिता पुत्री । दुहिता दुर्हिता दूरे हिता (नि ३-३) इति यास्कः । सारूढवती ॥ देवताता । सर्वदेवात्तातिल् (पा ४-४-१४२) इति स्वार्थिकस्तातिल् प्रत्ययः । तेन देवतातिशब्देन देवसंबद्धो यज्ञो लक्ष्यते । देवताता मख इति तन्नामसु पठितत्वात् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । सुपां सुलुगिति सप्तम्या डादेशः । त्रिष्ठम् । त्रिषु चक्रेषु तिष्ठतीति त्रिष्ठः । सुपि स्थः (पा ३-२-४) इति कः । अंबांबेत्यादिना (पा ८-३-९७) सकारस्य षत्वम् । सूरे । षू प्रेरणे । सुसूधागृधिभ्यः क्रन् (उ ४-२५) इति क्रन् । नित्त्वादाद्युदात्तः । विभक्तिव्यत्ययः । आ रुहत् । कृमृदृरुहिभ्यश्छंदसि (पा ३-१-५९) इति च्लेरङादेशः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः