मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् ६

संहिता

त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः ।
ओ॒मानं॑ शं॒योर्मम॑काय सू॒नवे॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥

पदपाठः

त्रिः । नः॒ । अ॒श्वि॒ना॒ । दि॒व्यानि॑ । भे॒ष॒जा । त्रिः । पार्थि॑वानि । त्रिः । ऊं॒ इति॑ । द॒त्त॒म् । अ॒त्ऽभ्यः ।
ओ॒मान॑म् । श॒म्ऽयोः । मम॑काय । सू॒नवे॑ । त्रि॒ऽधातु॑ । शर्म॑ । व॒ह॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥

सायणभाष्यम्

हे अश्विना नोऽस्मभ्यं दिव्यानि द्युलोकवर्तीनि भेषजा जौषधानि त्रिर्दत्तम् । तथा पार्थिवानि पृथिव्यामुत्पन्नान्यौषधानि त्रिर्दत्तम् । अद्भ्य उ अंतरिक्षसकाशादप्यौषधानि त्रिर्दत्तम् । आप इत्यंतरिक्षनाम अपः पृथिवी भूरिति तन्नामसु पाठात् । शंयोरेतन्नामकस्य बृहस्पतिपुत्रस्य । ते शंयुं बार्हस्पत्यमब्रुवन् । तै सं २-६-१०-१ । इति ब्राह्मणांतरात् । तस्य संबंधिनमीमानं सुखविशेषं ममकाय सूनवे मदीयाय पुत्राय दत्तम् । हे शुभस्पती शोभनस्यौषधजातस्य पालकौ युवां त्रिधातु वातपित्तश्लेष्मधातुत्रयशमन विषयं सुखम् । वहतम् । प्रापयतं ॥ दिव्यानि । दंडादित्वाद्यप्रत्ययः (पा ५-१-६६) भेषजा । भिषज् चिकित्सायाम् । पुंसि संज्ञायामिति घः । शंयोः । शसुउपशमे । क्विप् । शम् । यु मिश्रणे । अस्माद्विच् । कृदुत्तरपदप्रकृतिस्वरः । त्रिधातु । सितनिगमिमसिसच्यविधाञ् क्रुशिभ्यस्तुन् (उ १-७०) अद्भ्यः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । ओमानं अवतेरन्येभ्योऽपि दृश्यंत इति मनिन् । ज्वरत्वरेत्यादिनाकारवकारयोरूठ् । सार्वधातुकार्धधातुकलक्षणो गुणः । यदि ज्वरत्वरेत्यत्रानुनासिके च । पा ६-४२० । इति नानुवर्तते । तर्हि पूर्वेणैव सूत्रेण वकारस्य ऊडादेशो भविष्यति । शुभस्पती । शुभदीप्तौ । संपदादिलक्षणः क्विप् । षष्ठ्याः पतिपुत्रेति संहितायां विसर्जनीयस्य सत्वम् । सुबामंत्रित इति परांगवद्भावात् । षष्ठ्यामंत्रितसमुदायस्या,ष्टमिकं सर्वानुदात्तत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः