मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् ७

संहिता

त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् ।
ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वात॒ः स्वस॑राणि गच्छतम् ॥

पदपाठः

त्रिः । नः॒ । अ॒श्वि॒ना॒ । य॒ज॒ता । दि॒वेऽदि॑वे । परि॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वीम् । अ॒शा॒य॒त॒म् ।
ति॒स्रः । ना॒स॒त्या॒ । र॒थ्या॒ । प॒रा॒ऽवतः॑ । आ॒त्माऽइ॑व । वातः॑ । स्वस॑राणि । ग॒च्छ॒त॒म् ॥

सायणभाष्यम्

हे अश्विना दिवे दिवे प्रतिदिनम् । दिवेदिवे द्यविद्यवीत्यहर्नामसु पठितत्वात् । यजता यष्टव्यौ युवां नोऽस्मदीयां पृथिवीं वेदिरूपां भूमिं परि सर्वतः प्राप्य त्रिधातु कक्ष्यात्रययुक्त आस्तिर्णे बर्हिषि त्रिस्त्रिवारमशायतम् । शयनं कुरुतम् । हे रथ्या रथ्यौ रथस्वामिनौ तिस्रस्त्रिसंख्याका ऐष्टिकपाशुकसौमिकरूपा वेदीर्गच्छतम् । तत्र दृष्टांतः । स्वसराणि शरीराण्यात्मेव वातः । यथा प्राणिनामात्मभूतः प्राणवायुस्तदीयानि शरीराणि गच्छति तद्वत् ॥ यजता । यजतेर्भृमृदृशीत्यादिना (उ ५-११०) अतच् । चित इत्यंतोदात्तत्वम् । त्रिधातु । त्रेधा धीयते निधीयत इति त्रिधातु । सितनिगमीत्यादिना धाञस्तुन् । नित्त्वादाद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । सुपां सुलुगिति सप्तम्या लुक् । अशायतम् । अदादित्वाच्छपो लुक् । अशयातामित्यस्य ह्रस्वदीर्घयोर्व्यत्यासः । नासत्या । सत्सु साधू सत्यौ । न सत्यावसत्यौ । न असत्यौ नासत्यौ । सत्यावेव नासत्यावित्यौर्णवाभ इति यास्कः (नि ६-१३) नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । रथ्या रथार्हौ स्वामिनावित्यर्थः । छंदसि च (पा ५-१-६७) इति यप्रत्ययः । स्वसराणि । सरंति गच्छंतीति सरा इंद्रियाणि । स्वकीयाः सरा येषां सरीराणाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः