मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् ९

संहिता

क्व१॒॑ त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॒॑ त्रयो॑ व॒न्धुरो॒ ये सनी॑ळाः ।
क॒दा योगो॑ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना॑सत्योपया॒थः ॥

पदपाठः

क्व॑ । त्री । च॒क्रा । त्रि॒ऽवृतः॑ । रथ॑स्य । क्व॑ । त्रयः॑ । व॒न्धुरः॑ । ये । सऽनी॑ळाः ।
क॒दा । योगः॑ । वा॒जिनः॑ । रास॑भस्य । येन॑ । य॒ज्ञम् । ना॒स॒त्या॒ । उ॒प॒ऽया॒थः ॥

सायणभाष्यम्

हे नासत्यावश्विनौ त्रिवृतस्त्रिसंख्याकैरश्रिभिरुपेतस्य भवदीयस्य रथस्य । ईषाद्वयं पूर्वभागे संयुज्यते । सेयमेकाश्रिः । पृष्ठभागे वियुज्यते । तत्र कोणद्वयं संपद्यते । ईदृशस्य रथस्य संबंधीनि त्री चक्रा त्रीणि चक्राणि क्व । कुत्र स्थितानीत्यस्माभिर्न दृश्यते । ये काष्ठ विशेषाः सनीळाः । नीळं गृहसदृशं रथस्योपर्युपवेशस्थानम् । तेन सह वर्तंत इति सनीळास्तेकाष्ठविशेषा वंधुरो नीड बंधनाधारभूतास्त्रयोऽक्षेण सहिते द्वे ईषे इत्येवं त्रिसंख्याकाः क्व । कुत्र स्थिता इत्यस्माभिर्न ज्ञायते । वाजिनो बलवतो रासभस्य भवदीयाश्वस्थानीयस्य गर्दभस्य योगो रथे योजनं कदा । कस्मिन्काले निष्पन्नमित्यस्माभिर्न दृश्यते । येन चक्र त्रयनीडकाष्ठत्रयरासभयोजनसहितेन रथेन यज्ञमस्मदीयं यागस्थानमुपयाथो युवां प्राप्नुथः । तादृशस्य रथस्येति पूर्वत्रान्वयः ॥ त्री चक्रा । उभयत्रापि शेश्छंदसि बहुलमिति शेर्लोपः । वंधुरः । बंधेरौणादिक उरप्रत्ययः । वत्वं छांदसम् । स नीळाः । वोपसर्जनस्येति सभावः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः