मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् १०

संहिता

आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्व॑ः पिबतं मधु॒पेभि॑रा॒सभि॑ः ।
यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव॑न्त॒मिष्य॑ति ॥

पदपाठः

आ । ना॒स॒त्या॒ । गच्छ॑तम् । हू॒यते॑ । ह॒विः । मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ ।
यु॒वोः । हि । पूर्व॑म् । स॒वि॒ता । उ॒षसः॑ । रथ॑म् । ऋ॒ताय॑ । चि॒त्रम् । घृ॒तऽव॑न्तम् । इष्य॑ति ॥

सायणभाष्यम्

हे नासत्यावस्विनाविह कर्मण्या गच्छतम् । अत्रास्माभिर्हविर्हूयते । युवां च मधुपेभिर्मधुरद्रव्यपानयुक्तैरासभिर्भवदीयैरास्यैर्मध्वो मधुरद्रव्याणि हवीषि पिबतम् । सविता सूर्य उषसः पूर्वमुषःकालात्पुरा युवयोरश्विनोः संबंधिनं रथमृतायास्मद्यज्ञार्थमिष्यति हि । प्रेरयति खलु । कीदृशम् । चित्रं पूर्वोक्तैश्चक्रत्रयादिभिर्विचित्रं घृतवंतमक्षांजनसाधनेन घृतेनोपेतं ॥ गच्छतम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे । शपः पित्त्वादनुदात्तत्वम् । धातुस्वरः । अत्र गच्छतं पिबतं चेति चार्थप्रतीतेश्चादिलोपे विभाषेति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । हूयते । लसार्वधातुकानुदात्तत्वे यकः स्वरः । मध्वः । लिंगव्यत्ययः शसि यणादेशश्छांदसः । मधुपेभिः । मधु पिबंतीति मधुपानि । आतोऽनुपसर्गे क इति कप्रत्ययः । आसभिः । पद्दिन्नित्यादिनास्यशब्दस्यासनादेशः । युवोः । । युर्वोहि यंत्रमित्यत्रोक्तम् । इष्यति । इष गतौ । श्यनोनित्त्वा दाद्यादात्तत्वम् । हि चेति निघातप्रतिषेधः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः