मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् ११

संहिता

आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना ।
प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥

पदपाठः

आ । ना॒स॒त्या॒ । त्रि॒ऽभिः । ए॒का॒द॒शैः । इ॒ह । दे॒वेभिः॑ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒ना॒ ।
प्र । आयुः॑ । तारि॑ष्टम् । निः । रपां॑सि । मृ॒क्ष॒त॒म् । सेध॑तम् । द्वेषः॑ । भव॑तम् । स॒चा॒ऽभुवा॑ ॥

सायणभाष्यम्

हे नासत्या असत्येनानृतेन रहितावश्विना अश्विदेवौ युवां त्रिभिरेकादशैः ये देवासो दिव्येकादश स्थ । ऋग्वे १-१३९-११ । इत्यादिमंत्रप्रतिपादितैस्त्रिसंख्याकैरेकादशात्मकवर्गत्रयगतैर्देवैः सह मधुपेयं सोमात्मकं मधुरद्रव्यपानमभिलक्ष्येहास्मिन्देवयजनदेश आ यातम् । आगच्छतम् । आयुरस्मदीयमायुष्यं प्रतारिष्टम् । प्रवर्धयतम् । रपांस्यस्मदीयानि पापानि निर्मृक्षतम् । निःशेषेण शोधयतम् । द्वेषो द्वेषकर्तृन् सेधतम् । प्रतिषेधतम् । सचाभुवा अस्माभिः । सहावस्थितौ भवतं ॥ त्रिभिः । षट् त्रिचतुर्भ्य इति विभक्तेरुदात्तत्वम् । एकादशैः एकादशानां पूरणैः । तस्य पूरणे (पा ५-२-४८) इति डट् । मधुपेयम् । पा पाने अचो यदिति कर्मणि यत् । ईद्यति (पा ६-४-६५) इत्याकारस्य ईकारादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । मधु च तत्पेयमिति समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । तारिष्टम् । तृ प्लवनतरणयोः । छांदसे प्रार्थनायां लुजि च्लेः सिच् । इडागमः । वृतो वा (पा ७-२-३८) इति प्राप्तस्येटो दीर्घस्य सिचि च परस्मैपदेषु (पा ७-२-४०) इति प्रतिषेधः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । अत्र तारिष्टं मृक्षतं चेति चशब्दार्थप्रतीतेस्तस्य चाप्रयोगाच्चादिलोपे विभाषेति निघातप्रतिषेधः । आदिः सिचोऽन्यतरस्याम् (पा ६-१-१८७) इत्याद्युदात्तत्वम् । मृक्षतम् । मृश आमर्शने । छंदसि लुङ् लङ् लिट इति लोडर्थे लुङ् । शल इगुपधादनिटः क्सः (पा ३-१-४५) इति क्सादेशः । एकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः । षत्वकुत्वे । पूर्ववदडभावः । सेधतम् । षिधु गत्याम् । अत्र केवलोऽपि षिधिः प्रतिपूर्वस्यार्थे वर्तते । प्रार्थनायां लोट् । शपः पित्त्वादनुदात्तत्वं तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । पादादित्वात्तिङः परत्वाद्वा निघाताभावः । द्वेषः । अन्येभ्योऽपि दृश्यंत इति कर्तरि विच् । भवतम् । द्वेष इत्यस्य वाक्यांतरगतत्वात्तदपेक्षयास्य निघातो न भवति । समानवाक्ये च निघातयुष्मदस्मदादेशा वक्तव्याः । पा ८-१-१८-५ । इति वचनात् । सुचाभुवा । सचेत्ययं निपातः सहशब्दसमानार्थः । तथा च यास्कः । सचा सहेत्यर्थ इति (नि ५-५) सचा भवत इति सचाभुवौ । क्विप् । ओः सुपि (पा ६-४-८३) इति यणादेशस्य न भूसुधियोः (पा ६-४-८५) इति प्रतिषेधः सुपां सुलुगिति विभक्तेराकारः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः