मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३५, ऋक् १

संहिता

ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से ।
ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥

पदपाठः

ह्वया॑मि । अ॒ग्निम् । प्र॒थ॒मम् । स्व॒स्तये । ह्वया॑मि । मि॒त्रावरु॑णौ । इ॒ह । अव॑से ।
ह्वया॑मि । रात्री॑म् । जग॑तः । नि॒ऽवेश॑नीम् । ह्वया॑मि । दे॒वम् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥

सायणभाष्यम्

स्वस्वयेऽस्माकमविनाशाय । स्वस्तीत्यविनाशनाम (नि ३-२१) इति यास्कः । प्रथममादावग्निं ह्वयामि । इहास्मिन्कर्मण्यवसेऽस्मद्रक्षणा मित्रावरुणौ ह्वयामि । जगतो जंगमस्य प्राणिजातस्य निवेशनीमुपवेशनहेतुभूतां रात्रीं रात्रिदेवतां ह्वयामि । जंगमाः सर्वे प्राणिनो दिवसे स्वस्वव्यापारान्कृत्वा स्वस्वगृहे रात्रावुपविशंशीति प्रसिद्धम् । ऊतयेऽस्मद्रक्षणार्थं सवितारं देवं ह्वयामि ॥ मित्रावरुणौ । देवताद्वंद्वे चेति पूर्वपदस्यानङादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । रात्रीम् । रात्रेश्चाजसौ (पा ४-१-३१) इति ङीप् । निवेशनीम् । निविशंत्यस्यामिति निवेशनी । करणाधिकरणयोश्चेति ल्युट् । टढ्ढाणञित्यादिना (पा ४-१-१५) ङीप् । ऊतये अवतेः क्तिनि ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊट् । ऊतियूतीत्यादिना क्तिना उदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः