मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३५, ऋक् २

संहिता

आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥

पदपाठः

आ । कृ॒ष्णेन॑ । रज॑सा । वर्त॑मानः । नि॒ऽवे॒शय॑न् । अ॒मृत॑म् । मर्त्य॑म् । च॒ ।
हि॒र॒ण्यये॑न । स॒वि॒ता । रथे॑न । आ । दे॒वः । या॒ति॒ । भुव॑नानि । पश्य॑न् ॥

सायणभाष्यम्

सविता सूर्यः कृष्णेन रजसा कृष्णवर्णेन लोकेन । कृष्णं कृष्यतेर्निकृष्टो वर्णः (नि २-२०) इति यास्कः । लोका रजांस्युच्यंते (नि ४-१९) इति च । अंतरिक्षलोको हि सूर्यगमनात्पुरा कृष्णवर्णो भवति । तेनांतरिक्षमार्गेणा वर्तमानः पुनःपुनरागच्छन् । अमृतं देवं मर्त्यं मनुष्यं च निवेशयन् स्वस्वस्थानेऽवस्थापयन् । यद्वा । अमृतं मरणरहितः प्राणं मरणसहितं शरीरं च निवेशयन् । तथा चारण्यककांडे अमर्त्यो मर्त्यॆना सयोनिरित्येतस्य मंत्रभागस्य वाख्यानरूपे ब्राह्मणे यथोक्तोऽर्थोऽवगम्यते । मर्त्यानि हीमानि शरीराणि अमृतैषा देवता । ऐ आ २-१-८ । इति । यथोक्तगुणोपेतः सविता देवो भुवनानि सर्वान् लोकान्पश्यन् अवेक्षमाणः । प्रकाशयन्नित्यर्थः । हिरण्ययेन सुवर्णनिर्मितेन रथेना याति । अस्मत्समीपमागच्छति ॥ अमृतम् । मृतं मरणं नास्त्यस्येति बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्यदात्तत्वम् । मर्त्यम् । मर्ते भवम् । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । हिरण्ययेन । ऋत्व्यवास्त्व्येत्यादिना (पा ६-४-१७५) मयटो मकारलोपो निपातितः । यस्येति लोपे प्रत्ययस्वरः । भुवनानि । भू सत्तायाम् । भूधूसूभ्रस्जिभ्यश्छंदसि (उ २-८०) इति क्युन्प्रत्ययः । योरनादेश उवङादेशः । नित्त्वादाद्युदात्तत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः