मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३५, ऋक् ३

संहिता

याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् ।
आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥

पदपाठः

याति॑ । दे॒वः । प्र॒ऽवता॑ । याति॑ । उ॒त्ऽवता॑ । याति॑ । शु॒भ्राभ्या॑म् । य॒ज॒तः । हरि॑ऽभ्याम् ।
आ । दे॒वः । या॒ति॒ । स॒वि॒ता । प॒रा॒ऽवतः॑ । अप॑ । विश्वा॑ । दुः॒ऽइ॒ता । बाध॑मानः ॥

सायणभाष्यम्

देवो दीप्यमानः सविता प्रवता प्रवणवता मार्गेण याति । गच्छति । तथोद्वतोत्कृष्टेनोर्ध्वदेशयुक्तेन मार्गेण याति । उदयानंतरं आ मध्याह्नमूर्ध्वो मार्गः । तत उपरि आ सायं प्रवणो मार्ग इति विवेकः । तथा यजतो यष्टव्यः स देवः शुभ्राभ्यां श्वेताभ्यां हरिभ्यामश्वाभ्यां याति । देवयजनदेशे गच्छति । सविता देवो विश्वा दुरिता सर्वाणि पापान्यप बाधमानो विनाशयन् परावतो दूरदेशात् । परावत इति दूरनामसु पठितत्वात् । तादृशाद्द्यु लोकादायाति । यागदेश आगच्छति ॥ प्रवता । वन षण संभक्तौ । अस्मात्प्रपूर्वात्क्विप् । गमादीनामिति वक्तव्यम् । पा ६-४-४०-१ । इत्यनुनासिकलोपः । ततस्तुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । उद्वता । उत्पूर्वाद्वनतेः पूर्ववत्प्रक्रिया । यजतः । भृमृदृशीत्यादिना (उ ३-११०) यजतेः कर्मण्यतच् प्रत्ययः । विश्वा दुरिता । उभयत्र शेश्छंदसि बहुलमिति शेर्लोपः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः