मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३५, ऋक् ५

संहिता

वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः ।
शश्व॒द्विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥

पदपाठः

वि । जना॑न् । श्या॒वाः । शि॒ति॒ऽपादः॑ । अ॒ख्य॒न् । रथ॑म् । हिर॑ण्यऽप्रऽउग॒म् । वह॑न्तः ।
शश्व॑त् । विशः॑ । स॒वि॒तुः । दैव्य॑स्य । उ॒पऽस्थे॑ । विश्वा॑ । भुव॑नानि । त॒स्थुः॒ ॥

सायणभाष्यम्

श्यावा एतन्नामकाः सूर्यस्याश्वाः । श्यावाः सवितुरिति निघंटावुक्तत्वात् । ते च शितिपादः श्वेतैः पादैरुपेता हिरण्यप्रउगम् । रथस्य मुखमीषयोरग्रं युगबंधनस्थानं प्रउगमित्युच्यते । तच्चात्र सुवर्णमयम् । तद्युक्तं रथं वहंतो जनान्प्राणिनो व्यख्यन् । विशेषेण प्रकाशितवंत इत्यर्थः । शश्वत् सर्वदा विशः प्रजा दैव्यस्येतरदेवसंबंधिनः सवितुः प्रेरकस्य सूर्यस्योपस्थे समीपस्थाने तस्थुः । स्थितवत्यः । न केवलं प्रजाः किं तर्हि विश्वा भुवनानि सर्वे च लोकाः प्रकाशाय सूर्यसमीपे तसुः । शितिपादः । शितयः श्वेतवर्णाः पादा येषां ते शितिपादाः । सुपां सुलुगिति जसः सुआदेशः । यद्वा । शितिः श्वेतवर्णः स्फाटकादिः । स इव पादो येषां ते । पादस्य लोपोऽहस्त्यादिभ्यः (पा ५-४-१३८) इति समासांतपादशब्दस्यांत्यलोपः । उपमानादिति हि तत्रानुवर्तते । पादशब्दस्य वृषादित्वादाद्युदात्तत्वम् । तस्य बहुव्रीहौ समासे शितेर्नित्याबहूज्बहूव्रीहावभसत् (पा ६-२-१३८) इत्युत्तरपदप्रकृतिस्वरत्वम् । अख्यन् । ख्यातेर्लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः । हिरण्य प्रउगम् । बहुव्रीहौ पूर्वपदपृकृतिस्वरत्वम् । वहंतः । शपः पित्त्वादनुदात्तत्वम् । शतुश्चलसार्वधातुकस्वरेण धातुस्वरः । दैव्यस्य । तस्येदमित्यर्थे देवाद्य ञञौ । पा ४-१-८५-३ । इति देवशब्दात्प्राग्दीव्यतीयो यञ् । तद्धितेष्वचामादेरित्यादिवृद्धिः । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । उपस्थे । आतश्चोपसर्ग इति कः । आतो लोप इट चेत्याकारलोपः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः