मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३५, ऋक् ६

संहिता

ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।
आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥

पदपाठः

ति॒स्रः । द्यावः॑ । स॒वि॒तुः । द्वौ । उ॒पऽस्था॑ । एका॑ । य॒मस्य॑ । भुव॑ने । वि॒रा॒षाट् ।
आ॒णिम् । न । रथ्य॑म् । अ॒मृता॑ । अधि॑ । त॒स्थुः॒ । इ॒ह । ब्र॒वी॒तु॒ । यः । ऊं॒ इति॑ । तत् । चिके॑तत् ॥

सायणभाष्यम्

द्यावः स्वर्गोपलक्षिताः प्रकाशमाना लोकास्तिस्रस्त्रिसंख्याकाः संति ॥ तत्र द्वौ लोकौ सवितुः सूर्यस्योपस्था समीपस्थाने वर्तेते । द्युलोकभूलोकयोः सूर्येण प्रकाशितत्वात् । एका मध्यमा भूमिरंतरिक्षलोको यमस्य भुवनॆपितृपतेर्गृहे विराषाट् । विरान् गंतृन्सहते । प्रेताः पुरुषा अंतरिक्षमार्गेण यमलोके गच्छंतीत्यर्थः । अमृतामृतानि चंद्रनक्षत्रादीनि ज्योतींषि जलानि वाधि तस्तुः । सवितारमधिगम्य स्थितानि । तत्र दृष्टांतः । रथ्यमाणिं न । रथाद्बहिरक्षच्छिद्रे प्रक्षिप्तः कीलविशेष आणिरित्युच्यते । रथसंबंधिनमाणिमधिगम्य यथा रथस्तिष्ठति तद्वत् । यस्तु मानवस्तत्सवितृरूपं चिकेतत् जानाति स मानव इहास्मिन्विषये ब्रवीतु । कथयतु । केनापि वक्तुमशक्यः सवितुर्महिमेत्यर्थः ॥ तिस्रः । तिसृभ्यो जसः (पा ६-१-१६) इति विभक्तेरुदात्तत्वम् । द्वौ । संहितायामावादेशे लोप शाकल्यस्येति वकारलोपः । उपस्था । आङयाजयारां चोपसंख्यानम् । म ७-१-३९-१ । इति सप्तम्या आङादेशः । आङोऽनुनासिकश्छंदसि (पा ६-१-१२६) इति प्रकृतिभावः । विराषाट् । वृञ् वरणे । घइर्थे कविधानम् । पा ३-३-५८-४ । इति कर्मणि कः । बहुलं छंदसि (पा ७-१-१०३) इतीत्वम् । तथा सति वूर्यंत इति विरा इत्युक्तं भवति । तान्सहत इति विराषाट् । छंदसि सहः (पा ३-२-६३) इति सहेर्ण्विः । सहेः साडः (पा ८-३-५६) इति षत्वम् । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घः । रथ्यम् । रथस्येदं रथ्यम् । रथाद्यत् (पा ४-३-१२१) इति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । अमृता । शेश्छंदसि बहुलमिति शेर्लोपः । चिकेतत् । कित ज्ञाने । लेट्यडागमः । इतश्च लोप इतीकारलोपः । जुहोत्यादित्वात् श्लुः । लघूपधगुणः । अनुदात्ते च (पा ६-१-१९०) इत्यभ्यस्तस्याद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः