मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३५, ऋक् ७

संहिता

वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।
क्वे॒३॒॑दानीं॒ सूर्य॒ः कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥

पदपाठः

वि । सु॒ऽप॒र्णः । अ॒न्तरि॑क्षाणि । अ॒ख्य॒त् । ग॒भी॒रऽवे॑पाः । असु॑रः । सु॒ऽनी॒थः ।
क्व॑ । इ॒दानी॑म् । सूर्यः॑ । कः । चि॒के॒त॒ । क॒त॒माम् । द्याम् । र॒श्मिः । अ॒स्य॒ । आ । त॒ता॒न॒ ॥

सायणभाष्यम्

सुपर्णः शोभनपतनः सूर्यस्य रश्मिः । सुपर्णा इति पंचदश रश्मिनामानीति तन्नामसु पठितत्वात् । अंतरिक्षाण्यंतरिक्षोपलक्षितानि लोत्रयस्थानानि व्यख्यत् । विशेषेण ख्यापितवान् प्रकाशितवान् । कीदृशो रश्मिः । गभीरवेपा गंभीरकंपनः । रश्मे प्रकंपनं चलनं केनापि द्रष्टुमशक्यमित्यर्थः । असुरः सर्वेषां प्राणदः । तथा चान्यत्राम्नायते । सर्वेषां भूतानां प्राणानादायोदेतीति । सुनीथः सुनयनः शोभनप्रापणः । मार्गप्रकाशनेनाभीष्टदेशं प्रापयतीत्यर्थः । तादृशरश्मियुक्तः सूर्य इदानीं रात्रौ क्व कुत्र वर्तते । तदेतद्रहस्यं कश्चिकेत को जानाति । न कोऽपीत्यर्थः । अस्य सूर्यस्य रश्मिः कतमां द्यामा ततान । कं द्युलोकं रात्रौ व्याप्तवान् । एतदपि को जानाति ॥ सुपर्णः नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । गभीरवेपाः । टुवेपृ कंपने । असुन् । गभीरं वेपो यस्य । पूर्वपदप्रकृतिस्वरत्वम् । असुरः । असु क्षेपणे । अस्यति शत्रूनित्यसुरः । असेरुरन् (उ १-४३) नित्त्वादाद्युदात्तत्वम् । यद्वा । असून्प्राणान्राति ददातीत्यसुरः । आतोऽनुपसर्गे क इति कप्रत्ययः सुनीथः । णीञ् प्रापणे । हनिकुषिनीरमिकाशिभ्यः क्थन् (उ २-२) इति क्थन् । प्रादिमासे थाथादिनोत्तरपदांतोदात्तत्वम् । इदानीम् । इदंशब्दात्सप्तम्यर्थे दानीं च (पा ५-३-१८) इति दानींप्रत्ययः । इदम इशितीदंशब्दस्येशादेशः । प्रत्ययाद्युदात्तत्वम् । सूर्यः । षू प्रेरणे । सुवतीति सूर्यः । राजसूयसूर्येत्यादिना रुडागमसहितः क्यप्प्रत्यो निपातितः । प्रत्ययस्यानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । चिकेत । कित ज्ञाने । लिट् । कतमाम् । किंजातीयां वा बहूनां जातिपरिप्रश्ने डतमच् (पा ५-३-९३) इति किंशब्दात् डतमच् । डित्वाट्विलोपः चित इत्यंतोदात्तत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः