मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३५, ऋक् ९

संहिता

हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।
अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥

पदपाठः

हिर॑ण्यऽपाणिः । स॒वि॒ता । विऽच॑र्षणिः । उ॒भे इति॑ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तः । ई॒य॒ते॒ ।
अप॑ । अमी॑वाम् । बाध॑ते । वेति॑ । सूर्य॑म् । अ॒भि । कृ॒ष्णेन॑ । रज॑सा । द्याम् । ऋ॒णो॒ति॒ ॥

सायणभाष्यम्

हिरण्यपाणिः सुवर्णमयहस्तयुक्तः । यद्वा । यजमानेभ्यो दातुं हिरण्यं हस्ते धृतवान् । विचर्षणिः पश्यत्यर्थः । विचर्षणिर्विश्वचर्षणिरिति तन्नामसु पाठात् । सविता देव उभे द्यावापृथिवी अंत उभयोर्लोकयोर्मध्य ईयते । गच्छति । अमीवां रोगादिबाधामप बाधते । सम्यग्निराकरोति । तथा । सूर्यं वेति गच्छति । यद्यपि सवितृसूर्ययोरेकदेवतात्वं तथापि मूर्तिभेदेन गंतृगंतव्यभावः । कृष्णेन तमसः । कर्षकेण निवर्तकेन रजसा तेजसा द्यामाकाशमभ्यृणोति । सर्वतो व्याप्नोति ॥ व्यावापृथिवी । दिवसश्च पृथिव्याम् (पा ६-३-३०) इति चशब्दाद्दिव्यशब्दस्य द्यावादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । नोत्तरपदेऽनुदात्तादौ (पा ६-२-१४२) इति न निषेधः । अपृथिवीरुद्रपूषमंथिष्विति पर्युदस्तत्वात् । ईयते । ईङ् गतौ । तिङ्ङतिङ इति निघातः । बाधते । बाधते च वेति चेति समुच्छयार्थप्रतीतेश्च शब्दस्याप्रयोगाच्चादिलोपे विभाषेति निघातप्रतिषेधः । वेति । वी गतिप्रजनकांत्यशनखादनेषु । अदादित्वाच्छपो लुक् । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्यप्येषा द्वितीया तथापि तिङः परत्वान्निघाताभावः । ऋणोति । ऋणु गतौ । तनादित्वादुः । तनादिषु करोतेरेव गुणो नान्येषामित्यापिशलिमतेन गुणाभावः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः