मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् १

संहिता

प्र वो॑ य॒ह्वं पु॑रू॒णां वि॒शां दे॑वय॒तीना॑म् ।
अ॒ग्निं सू॒क्तेभि॒र्वचो॑भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते ॥

पदपाठः

प्र । वः॒ । य॒ह्वम् । पु॒रू॒णाम् । वि॒शाम् । दे॒व॒ऽय॒तीना॑म् ।
अ॒ग्निम् । सु॒ऽउ॒क्तेभिः॑ । वचः॑ऽभिः । ई॒म॒हे॒ । यम् । सी॒म् । इत् । अ॒न्ये । ईळ॑ते ॥

सायणभाष्यम्

हे ऋत्विग्यजमानाः देवयतीनां देवान्कामयमानानां पुरूणां बहूनां विशां प्रजारूणाणां वो युष्माकमनुग्रहाय यह्वं महांतम् । यह्वो विवक्षिथ इति महन्नामसु पाठात् । अग्निं सूक्तेभिर्वचोभिः सूक्तरूपैर्वाक्यैः प्रेमहे । प्रकर्षेण याचामहे । ईमहे यामीति याच्ञा कर्मसु पाठात् । अन्य इदन्येऽप्यृषयो यमग्निं सीं सर्वत ईळते स्तुवंति । तमग्निमिति पूर्वत्रान्वयः ॥ पुरूणां नामन्यतरस्यामिति नाम उदात्तत्वम् । विशाम् । सावेकाच इति विभक्तेरुदात्तत्वम् । देवयतीनाम् । देवानात्मन इच्छंत्यो देवयंत्यः । सुप आत्मनः क्यच् । न च्छंदस्यपुत्रस्येतीत्वस्येव दीर्घस्यापि प्रतिषेधः । अश्वाघस्यादिति पुनरात्वविधानाज्ङ्ञापकात् । क्यजंताल्लटः शतृ । कर्तरि शप् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण क्यचा सहैकादेश एकादेश उदात्तेनोदात्त इति शतुरुदात्तत्वम् । उगितश्चेति ङीप् । अनित्यमागमशासनमिति वचनान्नुमभावः । एकादेशस्वरस्य पूर्वत्रासिद्धत्वं नेष्यत इति वचनात् । पा ८-२-६-१ । शतुरुदात्तत्वं सिद्धमेवेति शतुरनुम इति नद्या उदात्तत्वम् । सूक्तेभिः । वक्तेः क्तिच् क्तौ च संज्ञायामिति क्तः । थाथादिनोत्तरपदांतोदात्तत्वम् । ईळते । ईड स्तुतौ । अदादित्वाच्छपो लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः