प्र त्वा॑ दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् ।
म॒हस्ते॑ स॒तो वि च॑रन्त्य॒र्चयो॑ दि॒वि स्पृ॑शन्ति भा॒नवः॑ ॥
प्र । त्वा॒ । दू॒तम् । वृ॒णी॒म॒हे॒ । होता॑रम् । वि॒श्वऽवे॑दसम् ।
म॒हः । ते॒ । स॒तः । वि । च॒र॒न्ति॒ । अ॒र्चयः॑ । दि॒वि । स्पृ॒श॒न्ति॒ । भा॒नवः॑ ॥
हे अग्ने होतारं होमनिष्पादकमाह्वातारं वा विश्ववेदसं सर्वज्ञं दूतं देवानां दूत्ये प्रवृत्तम् । अग्निर्वै देवानां दूत आसीदिति श्रुत्यंतरात् । तादृशं त्रां वृणीमहे । प्रकर्षेण वरणं कुर्मः । महो महतः सतो नित्यं वर्तमानस्य ते तवार्चयो दीप्तयो वि चरंति । विविधं प्रचरंति । भानवस्त्वदीया रश्मयो दिवि द्युलोके स्पृशंति । तत्रत्यान्प्राणिनः प्रकाशयंतीत्यर्थः ॥ विश्ववेदसम् । विश्वानि वेत्तीति विश्ववेदाः । असुन् । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । यद्वा । वेद इति धननाम । विश्वं वेदो धनं यस्य । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । महः । मह पूजायाम् । क्विप्चेति क्विप् । सावेकाच इति ङस उदात्तत्वम् । यद्वा । महच्छब्देऽच्छब्दलोपश्छांदसः । सतः । अस्तेः शतरि श्नसोरल्लोप इत्यकारलोपः । शतुरनुम इति विभक्तेरुदात्तत्वम् । दिवि । ऊडिदमिति विभक्तेरुदात्तत्वं ॥ ३ ॥