मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् ४

संहिता

दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा सं दू॒तं प्र॒त्नमि॑न्धते ।
विश्वं॒ सो अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते॑ द॒दाश॒ मर्त्य॑ः ॥

पदपाठः

दे॒वासः॑ । त्वा॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । सम् । दू॒तम् । प्र॒त्नम् । इ॒न्ध॒ते॒ ।
विश्व॑म् । सः । अ॒ग्ने॒ । ज॒य॒ति॒ । त्वया॑ । धन॑म् । यः । ते॒ । द॒दाश॑ । मर्त्यः॑ ॥

सायणभाष्यम्

हे अग्ने वरुणादयस्त्रयो देवासो देवाः प्रत्नं पुरातनं दूतं त्वां समिंधते । सम्यग्दीपयंति । यो मर्त्यो मनुष्यो यजमानस्ते तुभ्यं ददाश हविर्दत्तवान् स यजमानस्त्वया सहायभूतेन विश्वं सर्वं धनं जयति ॥ अर्यमा । अर्यान्मिमीत इत्यर्यमा । श्वन्नुक्षन्नित्यादिना (उ १-१५८) कनिन्प्रत्ययांतो निपातितः । इंधते ञिइंधी दीप्तौ । अस्माल्लट झस्यादादेशे श्नम् । श्नान्नलोपः (पा ६-४-२३) श्नसोरल्लोप इत्यकारलोपः । ददाश । दाशृ दाने । लिट लित्स्वरेण प्रत्ययात्पूर्वस्याकारस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः