मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् ६

संहिता

त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः ।
स त्वं नो॑ अ॒द्य सु॒मना॑ उ॒ताप॒रं यक्षि॑ दे॒वान्त्सु॒वीर्या॑ ॥

पदपाठः

त्वे इति॑ । इत् । अ॒ग्ने॒ । सु॒भगे॑ । य॒वि॒ष्ठ्य॒ । विश्व॑म् । आ । हू॒य॒ते॒ । ह॒विः ।
सः । त्वम् । नः॒ । अ॒द्य । सु॒ऽमनाः॑ । उ॒त । अ॒प॒रम् । यक्षि॑ । दे॒वान् । सु॒ऽवीर्या॑ ॥

सायणभाष्यम्

हे यविष्ठ्य युवत्तमाग्ने सुभगे सौभाग्ययुक्ते त्वे इत् त्वयेव विश्वं सर्वं हविरा हूयते । सर्वतः । प्रक्षिप्यते स त्वं नोस्मान्प्रति सुमनाः शोभन मनस्को भूत्वाद्यास्मिन्दिन उतापि चापरं श्वोऽपरं श्व इत्यादिक मुत्तरं कालं सर्वस्मिन्नपि काले नैरंतर्येण सुवीर्या शोभनवीर्योपेतान्देवान्यक्षि । यज ॥ सुभगे । शोभनो भगो यस्येति बहुव्रीहावाद्युदात्तत्वम् । द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । यविष्ठ्य । युवशब्दादिष्ठन् । स्थूलदूरेत्यादिना (पा ६-४-१५६) यणादेः परस्य लोपः पूर्वस्य च गुणः । छांदसो यकारोपजनः । यक्षि । बहुलं छंदसि शपो लुक् । सुवीर्या । शोभनं वीर्यं येषाम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । सुपां सुलुगिति विभक्तेराकारः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः