मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् ७

संहिता

तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।
होत्रा॑भिर॒ग्निं मनु॑ष॒ः समि॑न्धते तिति॒र्वांसो॒ अति॒ स्रिधः॑ ॥

पदपाठः

तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ ।
होत्रा॑भिः । अ॒ग्निम् । मनु॑षः । सम् । इ॒न्ध॒ते॒ । ति॒ति॒र्वांसः॑ । अति॑ । स्रिधः॑ ॥

सायणभाष्यम्

अभिष्टवे सायंकालीन उत्तरस्मिन्पटले तं घेमित्था नमस्विन इत्येषा विनियुक्ता । अथोत्तरमिति खंडे सूत्रितम् । प्रागाथीं पूर्वाह्णे काण्वीमपराह्णे (आ ४-७) इति

हे अग्ने नमस्विनोऽन्नयुक्ता नमस्कारयुक्ता वा । नम आयुः सूनृतेत्यन्न नामसु पाठान्नमः शब्दान्नवाचित्वम् । तादृशा यजमानाः स्वराजं स्वतो दीप्यमानं तं घें तमेव पूर्वोक्त सर्वगुणविशिष्टं त्वामित्थानेन प्रकारेण हविष्ट्रदानादिरूपेणोपासते । मनुषो मनुष्या यजमाना होत्राभिः सप्तभिर्वषट् कर्तृभिः । सप्त होत्राः प्राचीर्वषट्कुर्वंतीति श्रुत्यंतरात् । अग्निं त्वा समिंधते । सम्यग्दीषयंति । कीदृशा मनुष्याः स्रिधः शत्रूनति तितिर्वांसोऽतिशयेन तरंतः ॥ नमस्विनः अस्मायामेधेति मत्वर्थीयो विनिः । स्वराजम् । स्वभासा राजत इति स्वराट् । सत्सूद्विषेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आसते । आस उपवेशते । आदादित्वाच्छपोलुक् । तितिर्वांसः । तृ प्लवनतरणयोः । छंदसि लिडिति वर्तमानो लिट् । तस्यक्वसुश्चेति क्वसुः । वस्वेकाजाद्घसामिति नियमादिडभावः । ऋत इद्धातॊरितीत्वम् । ऋच्छत्यृताम् (पा ७-४-११) इति गुणो हलि च (पा ८-२-७७) इति दीर्घत्वं च न भवति । संज्ञापूर्वको विधिरनित्यत्वात् । यद्वा । तिरतिः प्रकृत्यंतरं द्रष्टव्यम् । स्रिधः । स्रिधु शोषणे । क्विप्चेति क्विप् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः