मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् १२

संहिता

रा॒यस्पू॑र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने॑ दे॒वेष्वाप्य॑म् ।
त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो॑ मृळ म॒हाँ अ॑सि ॥

पदपाठः

रा॒यः । पू॒र्धि॒ । स्व॒धा॒ऽवः॒ । अस्ति॑ । हि । ते॒ । अ॒ग्ने॒ । दे॒वेषु॑ । आप्य॑म् ।
त्वम् । वाज॑स्य । श्रुत्य॑स्य । रा॒ज॒सि॒ । सः । नः॒ । मृ॒ळ॒ । म॒हान् । अ॒सि॒ ॥

सायणभाष्यम्

हे स्वधावोऽन्नवन्नग्ने । स्वधा अर्क इति तन्नामसु पाठात् । अस्माकं रायो धनानि पूर्धि । पूरय देहि वा । पूर्धि पूरय देहीति वा । पूर्धि पूरय देहेति वा (नि ४-३) इति यास्कः । हे अग्ने ते तव देवेष्टाप्यं प्रापणीयं सख्यमस्ति हि । विद्यते खलु । त्वं श्रुत्यस्य श्रवणीयस्य वाजस्शान्नस्यराजसि । ईश्वरो भवसि । स त्वं नोऽस्मान्मृळ । सुखय । महान् । गुणैरधिकोऽसि ॥ रायः । ऊडिदमिति विभक्तेरुदात्तत्वम् । पूर्दि । पृ पालनपूरणयोः । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । बहलं छंदसीति शपो लुक् । हेरपित्त्वेन ङित्त्वाद्गुणाभाव उदोष्ठ्यपूर्वस्य (पा ७-१-१०२) इत्युत्वम् । हलि चेति दीर्घः । स्वधावः । संबुद्धौ मतुवसोरिति रुत्वम् । आप्यम् । अदुपधत्वाभावेऽपि व्यत्ययेन होरदुपधात् (पा ३-१-९८) इति कर्मणि यत् । यतोऽनाव इत्याद्युदात्तत्वं यद्वा । ण्यति च्छांदसमाद्युदात्तत्वम् । श्रुत्यस्य । श्रु श्रवणे । औणादिकः क्यप् । तुगागमः । यद्वा । श्रुतिशब्दाद्भवे छंदसीत यत् । मृळ । मृड सुखने । शस्य ङित्त्वाल्लघूपधगुणाभावः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०