मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् १३

संहिता

ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता ।
ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥

पदपाठः

ऊ॒र्ध्वः । ऊं॒ इति॑ । सु । नः॒ । ऊ॒तये॑ । तिष्ठ॑ । दे॒वः । न । स॒वि॒ता ।
ऊ॒र्ध्वः । वाज॑स्य । सनि॑ता । यत् । अ॒ञ्जिऽभिः॑ । वा॒घत्ऽभिः॑ । वि॒ऽह्वया॑महे ॥

सायणभाष्यम्

यूपोच्छ्रयण ऊर्ध्व ऊ षु ण ऊतय इति द्वे । पशाविष्टिरिति खंडे सूत्रितम् । ऊर्ध्व ऊ षु ण ऊतय इति द्वे (आ ३-१) इति ॥ एते एवाभिष्टवेऽपि विनियुक्ते । अथोत्तर मिति खंडे सूत्रितम् । सखे सखायमभ्या ववृत्स्वोर्ध्व ऊषु ण ऊतय इति द्वे (आ ४-७) इति ॥

हे यूप यद्वा यूपात्मकदारुनिष्ठाग्ने नोऽस्माकमूतये रक्षणायोर्ध्व उन्नतस्तिष्ठ । तत्र दृष्टांतः । सविता देवो न । यथा सूर्यो देव उन्नतस्तिष्ठति तद्वत् । ऊर्ध्व उन्नतस्सन् वाजस्यान्नस्य सनिता दाता भविष्यसि । यद्यस्मात्कारणादंजिभिराज्येन यूपमंजद्भिर्वाघद्भिर्यज्ञं महद्भिर्ऋत्विग्भिः सह विह्वयामहे अन्नदानाय त्वां विशेषेणाह्वयामः । तस्मादन्नस्य दाता भवेति पूर्वत्रान्वयः ॥ ऊषु णः । इकः सुञॆ (पा ६-३-१३४) इ ति संहितायां दीर्घः । सुञः (पा ८-३-१०७) इति षत्वम् । नश्च धातुस्थोरुषुभ्यः (पा ८-४-२७) इति णत्वम् । ऊतये । अवतेः क्तिनि ज्वरत्वरेत्यादिना ऊट् ऊतियूतीत्यादिना क्तिन्नुदात्तत्वम् । तिष्ठ । तिष्ठ । शपि पाघ्रेत्यादिना तिष्ठादेशः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । वाजस्य । क्रियाग्रहणं कर्तव्यम् । पा १-४-३२-१ । इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । सनिता । षणु दाने । लुटि तासिः । वलादिलक्षण इट् (पा ७-२-३५) तिपो डादेशः (पा २-४-८५) टलोपः । उदात्तनिवृत्तिस्वरेण तिबादेशस्योदात्तत्वे प्राप्ते तास्यनुदात्तेदिति तस्यानुदात्तत्वम् । धातुस्वरः । न लुट् (पा ८-१-२९) इति निघातप्रतिषेधः । अंजिभिः । अन्जू व्यक्तिम्रक्षणगतिषु । खनिकष्यंजीत्यादिना (उ ४-१३९) इप्रत्ययः । विह्वयावहे । निसमुपविभ्यो ह्वः (पा १-३-३०) इत्यकर्त्रभिप्रायेऽप्यात्मनेपदम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०