मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् १५

संहिता

पा॒हि नो॑ अग्ने र॒क्षसः॑ पा॒हि धू॒र्तेररा॑व्णः ।
पा॒हि रीष॑त उ॒त वा॒ जिघां॑सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ॥

पदपाठः

पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः॑ । पा॒हि । धू॒र्तेः । अरा॑व्णः ।
पा॒हि । रिष॑तः । उ॒त । वा॒ । जिघां॑सतः । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । यवि॑ष्ठ्य ॥

सायणभाष्यम्

हे अग्ने हे बृहद्भानो बृहंतो भानवो यस्य तादृश हे यविष्ठ्य युवत्तम हे अग्ने नोऽस्मान्रक्षसो बाधकाद्राक्षसादेः पाहि । पालय । तथा अराव्णो धनादीनामदातृरूपाद्धूर्तेर्हिंसकात्बाहि । तथा रिषतो हिंसकाद्व्याघ्रादेः सकाशात्पाहि । उत वा अथवा जिघांसतो हंतुमिच्छतः शत्रोः सकाशात्पाहि ॥ धूर्तेः । धुर्वी हिंसार्थः । क्तिच् क्तौ च संज्ञायामिति कर्तरि क्तिच् । तित्रुतेत्यादिनेट् प्रतिषेधः । राल्लोपः (पा ६-४-२१) इति वकारलोपः । हलि चेति दीर्घत्वम् । अरावः । रा दाने । आतो मनिन्नित्यादिना वनिप् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । पंचम्येकवचनेऽल्लोपोऽन इत्यनोऽकारस्य लोपः । रिषतः । रिष हिंसायाम् । लटः शतृ । बहुलं छंदसीति शपो लुक् । प्रत्ययस्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । जिघांसतः । हंतेरिच्छार्थे सन्यज्झनगमां सनि (पा ६-४-१६) इत्युपधादीर्घत्वम् । अभ्यासाच्च (पा ७-३-५५) इत्यभ्यासादुत्तरस्य हकारस्य घत्वम् । सन्यत इतीत्वम् । अदुपदेशाल्लसार्वधातुकानुदातत्वे सनो नित्त्वान्नित्स्वरेण पदस्याद्युदात्तत्वम् । बृहद्भानो । आमंत्रितस्य चेति षाष्ठिकमाद्युदात्तत्वम् । पादादित्वादाष्टमिकनिघाताभावः । यविष्ठ्य । स्धूलदूरेत्यादिना यणादिपरस्य लोपः । पूर्वस्य च गुणः । यकारोपजनश्छांदसः ॥ १० ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०