मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् १६

संहिता

घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा॑व्ण॒स्तपु॑र्जम्भ॒ यो अ॑स्म॒ध्रुक् ।
यो मर्त्य॒ः शिशी॑ते॒ अत्य॒क्तुभि॒र्मा न॒ः स रि॒पुरी॑शत ॥

पदपाठः

घ॒नाऽइ॑व । विष्व॑क् । वि । ज॒हि॒ । अरा॑व्णः । तपुः॑ऽजम्भ । यः । अ॒स्म॒ऽध्रुक् ।
यः । मर्त्यः॑ । शिशी॑ते । अति॑ । अ॒क्तुऽभिः॑ । मा । नः॒ । सः । रि॒पुः । ई॒श॒त॒ ॥

सायणभाष्यम्

हे तपुर्जंभ तप्यमानरश्मियुक्ताग्ने अराव्णोऽस्मभ्यं देयस्य धनस्यादातृन्वैरिणो विष्वक् सर्वतो वि जहि । विशेषेण मारय । तत्र दृष्टांतः । घनेव । यथा कठिनेन दंडपाषाणादिना भांडादिभंगं करोति तद्वत् । योऽन्योऽपि रिपुरस्मध्रुक् अस्मद्विषयद्रोहकारी भर्त्सनादिना बाधते । यश्चान्यो मर्त्यो मनुष्यः शत्रुरक्तुभिरायुधैरति शिशीते तनूकरोति । अस्मान्प्रहरतीत्यर्थः । स रिपुर्भर्त्सनप्रहारकारी द्विविधोऽपि शत्रुर्नोऽस्मान्प्रति मेशत । ईश्वरः शक्तो मा भूत् ॥ घनाऽइव । सुपां सुलुगिति तृतीयाया डादेशः । जहि । हंतेर्लोट हौ हंतेर्जः (पा ६-४-३६) इति जादेशः । तस्यासिद्धत्वाद्धेर्लुगभावः । तपुर्जंभ । तप संतापे । औणादिकः करण उसिन्प्रत्ययांतस्तपुस् शब्दो नित्त्वादाद्युदात्तः । जभिनाशने । जंभ्यंते शत्रव एभिरिति जंभान्यायुधानि । करणे घञ् । तपूंष्येव जंभानि यस्यासौ तपुर्जंभः । आमंत्रिताद्युदात्तत्वम् । अस्मध्रुक् । द्रुहि जिघाम् । सायाम् । सत्सूद्विषेत्यादिना क्विप् । वा द्रुहमुहष्णुहष्णिहाम् (पा ८-२-३३) इति हकारस्य घत्वम् । भष्भावः । शिशीते । शो तनूकरणे । व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति विकरणस्य श्लुः । आदेच इत्यात्वम् । ततो द्विर्वचने बहुलं छंदसि (पा ७-४-७८) इत्यभ्यासस्येत्वम् । ई हल्यघोरितीत्वम् । व्यत्ययेनाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । ईशत । लङि बहुलं छंदसीति शपो लुगभावः । न माङ्योग इत्यडागमाभावः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११